Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
बालशिक्षा - तृतीयः स्यादिप्रक्रमः ।
अथ विशेषाः - पाद- मास- निशा - हृदय-यूष - दोषाणां पदू - मास - निश- [ हृत्] - यूष - दोषन् । 'शसादावचि या ।' इति । पादान्, पदः । पादेन, पदा । पादाभ्याम्, पादैः । इत्यादि ।
एवं मासान्, मासः । मासेन, मासा । इत्यादि ।
दार- प्राण - लाजाः बहुवचनान्ताः ।
क्लीबाः - कुण्डम्, कुण्डे, कुण्डानि २ । शेषं पुंलिङ्गवत् ।
एवं चित्त-वित्तादयः ।
वि० हृदय 'शसादावचि वा । हृद् । हृदयानि, हृन्दि । हृदयेन, हृदा । इत्यादि ।
रक्त- कृष्णादयस्त्रिलिङ्गाः । पुंसि वृक्षवत् । स्त्रियां 'स्त्रियामादा।' इति आप्रत्यये आदन्तेषु वक्ष्यमाणः श्रद्धावत् । क्लीबे कुण्डवत् ।
विशेष: अल्पादिगणः - अल्प प्रथम चरम तय अय कतिपय नेम 'अर्द्ध पूर्वादयश्च । जसि, पुंसि अल्पे, अल्पाः । एवमल्पादयः । किन्तु तय-अयौ प्रत्ययौ तदन्ताः शब्दाः ग्राह्याः
संख्याया अवयवे तयद् - एकतय द्वितय त्रितय चतुष्टय पञ्चतय इत्यादि । द्वि- त्रिभ्यामयट् - द्वयत्रयौ । तथा द्वयशब्दस्य व्याकरणाद् द्वयानामिति निष्पत्तिः । परं द्वयेषामित्यपि दृश्यते । तथा च माघे -
'वृष्ट्या द्वयेषामपि मेदिनीभृताम् ।'
नदाद्यर्थष्टानुबन्धः स्त्रियां द्वयी, द्वितयी । ईप्रत्यये सर्वे वक्ष्यमाणनदीवत् ज्ञेयाः ।
अर्द्धशब्दोऽसमभागे वर्त्तमानः पुंलिङ्गः । समभागे तु क्लीवः । नेम - पूर्वादयः सर्वनामगणे द्रष्टव्याः ॥ ४ ॥
सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर उतम वृत् त्व नेम सम सिम पूर्वपरावरदक्षिणोत्तरापराधराणि । व्यवस्थायामसञ्ज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । वृत् । त्यद् तद् यद् अदस् इदम् एतद् एक किम् द्वि युष्मद् अस्मद् भवन्तः ।
एषां वि० जसि सर्वे । ङयि सर्वस्मै । ङसौ सर्वस्मात् । आमि सर्वेषाम् । ङौ सर्वस्मिन् । 'अव्यय सर्वनाम्नः खरादन्त्यात् पूर्वोऽकू कः । इत्यकि सर्वकः सर्वकौ, सर्वके । इत्यादी सर्ववत् । स्त्रियामादन्तेषु द्रष्टव्यः । क्लीबे कुण्डवत् । अकि सर्वकमित्यादि ।
5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 208