SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - तृतीयः स्यादिप्रक्रमः । अथ विशेषाः - पाद- मास- निशा - हृदय-यूष - दोषाणां पदू - मास - निश- [ हृत्] - यूष - दोषन् । 'शसादावचि या ।' इति । पादान्, पदः । पादेन, पदा । पादाभ्याम्, पादैः । इत्यादि । एवं मासान्, मासः । मासेन, मासा । इत्यादि । दार- प्राण - लाजाः बहुवचनान्ताः । क्लीबाः - कुण्डम्, कुण्डे, कुण्डानि २ । शेषं पुंलिङ्गवत् । एवं चित्त-वित्तादयः । वि० हृदय 'शसादावचि वा । हृद् । हृदयानि, हृन्दि । हृदयेन, हृदा । इत्यादि । रक्त- कृष्णादयस्त्रिलिङ्गाः । पुंसि वृक्षवत् । स्त्रियां 'स्त्रियामादा।' इति आप्रत्यये आदन्तेषु वक्ष्यमाणः श्रद्धावत् । क्लीबे कुण्डवत् । विशेष: अल्पादिगणः - अल्प प्रथम चरम तय अय कतिपय नेम 'अर्द्ध पूर्वादयश्च । जसि, पुंसि अल्पे, अल्पाः । एवमल्पादयः । किन्तु तय-अयौ प्रत्ययौ तदन्ताः शब्दाः ग्राह्याः संख्याया अवयवे तयद् - एकतय द्वितय त्रितय चतुष्टय पञ्चतय इत्यादि । द्वि- त्रिभ्यामयट् - द्वयत्रयौ । तथा द्वयशब्दस्य व्याकरणाद् द्वयानामिति निष्पत्तिः । परं द्वयेषामित्यपि दृश्यते । तथा च माघे - 'वृष्ट्या द्वयेषामपि मेदिनीभृताम् ।' नदाद्यर्थष्टानुबन्धः स्त्रियां द्वयी, द्वितयी । ईप्रत्यये सर्वे वक्ष्यमाणनदीवत् ज्ञेयाः । अर्द्धशब्दोऽसमभागे वर्त्तमानः पुंलिङ्गः । समभागे तु क्लीवः । नेम - पूर्वादयः सर्वनामगणे द्रष्टव्याः ॥ ४ ॥ सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर उतम वृत् त्व नेम सम सिम पूर्वपरावरदक्षिणोत्तरापराधराणि । व्यवस्थायामसञ्ज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । वृत् । त्यद् तद् यद् अदस् इदम् एतद् एक किम् द्वि युष्मद् अस्मद् भवन्तः । एषां वि० जसि सर्वे । ङयि सर्वस्मै । ङसौ सर्वस्मात् । आमि सर्वेषाम् । ङौ सर्वस्मिन् । 'अव्यय सर्वनाम्नः खरादन्त्यात् पूर्वोऽकू कः । इत्यकि सर्वकः सर्वकौ, सर्वके । इत्यादी सर्ववत् । स्त्रियामादन्तेषु द्रष्टव्यः । क्लीबे कुण्डवत् । अकि सर्वकमित्यादि । 5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy