________________
बालशिक्षा-तृतीयः स्यादिप्रक्रमः। - अस्मिन् गणे एवमदन्ताः । तत्रापि सर्वो नाम कश्चित् । सर्वमतिक्रान्ताय सर्वाय । अतिसर्वाय । इत्थमेतेषां सज्ञारूपाणां गौणानां सर्वनामत्वं नहि।
उभयशब्दः संख्याधिकारे द्रष्टव्यः । उभये इति नित्यं भाषायाम् । नाल्पादिविकल्पः । स्त्रियामुभयी। ___ क्लीबे अन्यस्य स्यमोः अन्यत् । २। हे अन्यत् । एवमन्यादयः पञ्च । तेषु डतर-डतमौ प्रत्ययौ।तदन्ताः शब्दा ग्राह्याः। यत्-तद्-एकेभ्यो द्वयोरेकस्य निर्धारणे डतरः । जातौ वा बहूनां डतमः। तौ च । किमः । यतरः। यतमः । ततरः । ततमः । एकतरः। एकतमः । कतरः । कतमः। इत्यादयो मन्तव्याः। गणकृत्यस्यानित्यत्वात् एकतरस्य नुरागमो न स्यात् । एकतरं कुलमस्ति । वृत् करणं गणसमाप्त्यर्थम् । त्वशब्दोऽन्यार्थः। नेमशब्दोऽर्द्धवाची। अल्पादित्वात्। नेमे नेमाः। समः सर्वसमानयोः। सिमः सर्वार्थोऽश्वार्थश्च । सर्वार्थादन्यत्र सिमे देशे यजति । सिमाय अश्वाय । अल्पादित्वात् । पूर्वे, पूर्वाः। विभाष्येते पूर्वादेः।' इति पूर्वस्मात् , पूर्वात्। पूर्वस्मिन् पूर्वे। इत्थं नव पूर्वादयः। एषु सप्तानां व्यवस्थायामसञ्ज्ञायां सर्वनामत्वम् । पूर्वोदयः शब्दाव्यवस्थायांगम्यमानायां असञ्ज्ञारूपाः सर्वनामसञ्ज्ञारूपा भवन्ति । इति । खाभिधेयापेक्षो विधिनियमो व्यवस्था । अन्यत्र दक्षिणाय गाथकाय देहि, प्रवीणायेत्यर्थः । दक्षिणायै द्विजाः स्पृहयन्ति । अनभिधानसञ्ज्ञा । सञ्ज्ञायां उत्तरा एव कुरवः । उत्तराय कुरुदेशाय । स्वशब्द आत्मन्यात्मीये धने ज्ञातौ च । अज्ञातिधनाख्यायामिति वचनात्। खाय ज्ञातये । स्वाय धनाय । अन्तरं बहियोगोपसंव्यानयोः। अन्तरस्मै गृहाय । नगरबाह्याय चाण्डालादिगृहायेत्यर्थः। अन्तरस्मै साटकाय । अन्यत्र ग्रामयोरन्तरात्तापस आयातः, मध्यादित्यर्थः। द्विशब्दः संख्याधिकारे त्यदादयश्च व्यञ्जनाधिकारे द्रष्टव्याः। 'तीयाद्वा वक्तव्यम्।' इति । द्वितीयस्मै, द्वितीयाय । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन् , द्वितीये। ख्यामादन्तेषु ज्ञेयः। एवं तृतीयोऽपि ।
पश्चालस्यापत्यं पाञ्चालः, पाश्चालौ। 'रूढानां बहुत्वे स्त्रियामपत्यप्रत्ययस्य।' इति लुकि वृद्ध्यभावे बहुत्वे पश्चालाः। पञ्चालान् । इत्यादि । स्त्रियां पञ्चाल्यः । क्लीबे पश्चालानि कुलानि । अनपत्येऽणि पञ्चालानामिमे भृत्याः पाञ्चालाः। पाञ्चालान् । इत्यादि ॥७॥ - एवं वैदेहः, वैदेही, विदेहाः। एवं आङ्ग-वाङ्ग-मागध कालिङ्गसौरमसादयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org