SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बाल शिक्षा - तृतीयः स्यादिप्रक्रमः। 'गर्ग-यस्क-विदादीनां च ।' गार्ग्य वात्स्य। ण्यस्य लुक् । यास्क लाय वैद और्व । अणो लुक् । गार्ग्यः गाग्र्यो, गर्गाः। एवं वत्साः। यस्काः। लह्याः । विदाः । उर्वाः। . भृग्वत्र्यङ्गिरसू-कुत्स- वसिष्ठ-गोतमेभ्यश्च ।' अनेरेयः । इतरेभ्योऽण् । भार्गवः भार्गवौ भृगवः । आत्रेयः आत्रेयौ अत्रयः। एवं आङ्गिरस-कौत्स-वासिष्ठ-गौतमाः। 'श्येतैतहरितलोहितेभ्यस्तो नः।' ई ४। श्येनी कुमुदपत्राभा शुकामा हरिणी मता । लोहिनी जपापुष्पाभा एनी कर्बुरिता भवेत् ॥ ७॥ अथ आदन्ताः पुंलिङ्गाः'हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ।' अमरकोशे । हाहाः हाही हाहाः। हाहां हाहो । अस्य अधात्वाकारेऽपि 'आ धातोरघुवरे।' इत्यन्तलोपः। यदुक्तम् प्रायोवृत्ति समाश्रित्य धातोरिति खलुच्यते । रूयाकारमेकं सन्त्यज्य सर्वस्यान्यस्य संग्रहः ॥ हाहः। हाहा हाहाभ्याम् । इत्यादि । हे हाहाः । अन्योऽप्येवम् ॥ ७ ॥ स्त्रीलिङ्गाः-श्रद्धा श्रद्धे श्रद्धाः । श्रद्धां श्रद्धे श्रद्धाः। श्रद्धया। श्रद्धायै । श्रद्धायाः। श्रद्धानाम् । श्रद्धायाम् । श्रद्धासु । हे श्रद्ध। एवं शाला-मालादयः। वि० 'हखोम्बार्थानाम् ।' हे अम्ब, हे अक्क, हे अत्त, हे अल्ल । बहुस्वरत्वात् डलकवतां न स्यात् । हे अम्बाडे, हे अम्बाले, हे अम्बिके । सर्वा । यि सर्वस्यै । ङसि-ङसोः सर्वस्याः। २। आमि सर्वासाम् । औ सर्वस्याम् । अकि सर्विका इत्यादि । एवमाप्रत्यये सर्वादिगणः । 'तीयाद्वा।' इति डवथु । द्वितीयस्यै, द्वितीयायै । द्वितीयस्याः, द्वितीयायाः।२। द्वितीयस्याम् , द्वितीयायाम् । एवं तृतीयाशब्दः। - निशा 'शसादौ खरे वा निश।' निशाः, निशः । निशया, निशा। इत्यादि । . 'जरा जरस् खरे वा।' जरा जरसौ जरे। जरसः जराः । इत्यादि। जरामतिक्रान्त इत्यन्यपदार्थे 'गोरप्रधानस्यान्तस्य स्त्रियामादादीनां च।' इति. ह्रखः । पुंसि अतिजरः । ह्रखत्वे कृतेऽप्येकदेशविकृतमन्यवद्भावात् खरे वा जरस् । अतिजरसौ, अतिजरौ। अतिजरसः, अतिजराः। 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy