________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः । अतिजरसं अतिजरम् । अतिजरसः, अतिजरान् । अतिजरसा, अतिजरेण। 'टेने ति सिद्धे इनोचारणमग्रत एव इन यथा स्यात् । तेन अतिजरसिन इत्यपि । अतिजराभ्याम् । अतिजरसैः, अतिजरैः। अतिजरसे, अतिजराय । अतिजरसः, अतिजरात् । 'ङसिरात्।' इति दीर्घोच्चारणात् । अतिजरसात्, अतिजरसः। अतिजरस्य । इत्यादि ।
स्त्रियां मुख्य-जरावत् ।
क्लीबे अतिजरं अतिजरसी अतिजरे। अतिजरांसि, अतिजराणि । २। शेषं पुंवत् ।
वासाः दशाः मघाः कृत्तिकाः समाः वर्षाः वरणाः बह्वर्थाः ।
सोमं पिबति इति सोमपाः पुंस्त्रियोहाहावत्। खरोहखो नपुंसके।' सोमपं सोमपे सोमपानि । सोमपेन । इत्यादि ।
एवं कीलालपा-शङ्खध्मा-धूमपादयः।
उदधिका विष्णुः। विषखा शम्भुः। गोषा रविः । अब्जजा ब्रह्मा । अग्रेगा इन्द्रः। इति विडन्ताः सञ्ज्ञाशब्दाः पुंलिङ्गाः हाहावत्।
इदन्ता पुंलिङ्गाः- अग्निः अग्नी अग्नयः। अग्निम् । अग्नीन् । अग्निना। अग्नये । अग्नेः।२। अग्योः । अग्नीनाम् । अग्नौ । अग्निषु । हे अग्ने।
एवं सन्धि-निध्यादयः।
वि० सखि। सखा सखायौ सखायः। सखायम् । सखीन् । सख्या। सख्ये । सख्युः।२। सख्यौ । हे सखे । स्त्रियां सखी ।
'पतिरसमासे ।' टादौ सखिवत् । पत्या। पत्ये । इत्यादि । समासे स्वग्निवत् । यथा- नरपतिना। नरपतये ।
पन्थि । पन्थाः पन्थानौ पन्थानः। पन्थानम् । पथः । पथा पथिभ्यां पथिभिः । पथे। पथः । २। पथोः। पथाम् । पथि । पथिषु । हे पन्थाः। ___ एवं मन्थि-ऋभुक्षि ॥ ७॥
स्त्रीलिङ्गाः-बुद्धिरग्निवत् । शसादौ तु बुद्धीः । बुद्ध्या । बुद्ध्यै, बुद्धये । बुद्ध्याः , बुद्धेः । २। बुद्भ्याम् , बुद्धौ ।। .. एवं मति-सिद्धि-धूलि - भूमि-मुख्याः । धूल्यादीनां 'इतश्च क्तिवर्जिताद्वा।' इति धूली इत्याद्यपि स्यात् ॥ ७॥
क्लीवाः- वारि वारिणी वारीणि । वारिणा । वारिणे । वारिणः ।२। वारिणोः। वारीणाम्। वारिणि । वारिषु। संबोधने 'नपुंसकात् स्यमोर्लोपोन च तदुक्तम् ।' इति प्रतिषेधेऽपि 'नाभ्यन्तत्रिचतुरां वा।' इति पक्षे एत्वमपि । तेन हे वारे, है वारि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org