________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः । एवं स्वार्थ भूरि-मुख्याः । वि०- 'अस्थि-दधि-सक्थ्यक्ष्णामन्नन्तष्टादौ ।' इति खरे अस्था। अस्थे । अस्थः।२। अस्योः । अस्माम् । '
ईर्यो ।' अस्नि, अस्थनि । ___ एवं दधि-सक्थि-अक्षि । सक्थि ऊपर्यायः ।
त्रिलिङ्गाः-शोभना बुद्धिर्यस्येति सुबुद्धिः। पुंस्यग्निवत् । स्त्रियामप्येवम् । ख्याख्यावियुवौ वामि।' इति आख्याग्रहणस्य नित्यं स्त्रीलिङ्गविषयत्वात्। 'हखश्च ङवति।' इति वा नदीवद्भावो नास्ति परं शसि सस्य नत्वम् । सुबुद्धीः। 'टा ना' इत्यपि न। सुबुद्ध्या।
क्लीबे वारिवत् । 'भाषितपुंस्कं पुंवद् वा।' इति टादौ स्वरे पुंवद्वा। न्वागमे 'टा ना' पक्षे च । सुबुद्धिना । सुबुद्धिने, सुबुद्धये । इत्यादि ।
सं० त्रिलिङ्गिनामन्यपदार्थत्वेन गौणत्वात् । 'नाम्यन्तत्रिचतुरां वा।' इति न पाक्षिकमेत्वम् । तेन हे सुबुद्धि । ___एवं सुसिद्धि-दीर्घाङ्गुलि-अतिनदि -मुख्याः ।
वि० शुचि-शब्दः स्वत एव त्रिलिङ्गोऽस्ति । तदस्य स्त्रियां खत एव स्त्रीत्वप्रवृत्तत्वात् । 'हखश्च ङवति।' इति वा नदीवद्भावोऽस्त्येव । तेन बुद्धिवत् । शुच्यै, शुचये । इत्यादि । क्लीवे सं० हे शुचि, हे शुचे।
एवं सुरभि- भूरि-मुख्याः ।
सखिरन्यपदार्थे यथा-शोभनः सखा यस्येति सुसखि । पुंसि मुख्य-सखिवत् । स्त्रियां सुसखी । क्लीबे टादौ खरे पुंवद्वा । सुसखिना, सुसख्या । इत्यादि ॥७॥
पन्ध्यादयोऽन्यपदार्थे यथा-सुपन्थि । पुंस्त्रियोर्मुख्य - पन्थिवत् । क्लीबे सुपथि सुपथिनी सुपथीनि । २ । टादौ खरे पुंवद्वा । सुपथिना, सुपथा । इत्यादि।
अस्थ्यादीनामन्यपदार्थे पुंस्त्रियोरप्यन्तोऽन् । प्रियास्था पुंसा । प्रियास्त्री स्त्री । क्लीवे मुख्य - अस्थिवत् ॥ ७॥ - ईदन्ताः पुंलिङ्गाः-वाताभिमुखगामी मृगो वातप्रमी। वातप्रमी वातप्रम्यौ वातप्रम्यः । सारखतव्याकरणे - समानादम्शसोरल्लोपः। सो नः पुंसः। वातप्रमीम् । वातप्रमीन् । वातप्रम्या । इत्यादि। आमि वातप्रम्याम्। डौ समानलक्षणो दीर्घः। वातप्रमी । वातप्रमीषु । हे वातप्रमीः।
एवं देवयजी-मुख्याः ।
स्त्रीलिङ्गाः-नदी नद्यौ नद्यः । नदीम् । नदीः। नद्या। नद्यै। नद्याः।२। नद्योः। नदीनाम् । नद्याम् । नदीषु । हे नदि।
एवं मही-नारी-मुख्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org