Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 424
________________ परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम् ‘जीवनेसत्थीया रायाइसंदेसातो जहा उदगस्स जंत्ताईहि 'मित्यादि, (८) जीवाज्जीवेन व हेतुभूतेन वस्तूकादि निसृजति यस्यां जीवनिपातनात् सा जीवनैसृष्टिकी, अत्र हि राजादिजीवात् - 5 तदादेशादित्यर्थः तेन वा राज्ञा हेतुभूतेनोदकं यन्त्रादिभिः कूपादेराकृष्य निसृजति, एवमजीवादी वा धनुरादिना शिलीमुखादि निसृजति यस्यां सा अजीवनैसृष्टिकी, अथवा जीवे - गुर्व्वाद जीवंस्वशिष्यं पुत्रं वा अविधिना निसृजति - ददाति यस्यां सा जीवनैसृष्टिकी, अजीवे - अचित्तस्थण्डिलादौ अनाभोगादिनाऽनेषणीयं स्वीकृतमजीवं वस्त्रं पात्रं वा सूत्रव्यपेतं यथा भवत्यप्रमार्जिताद्यविधिना निसृजति—परित्यजति यस्यां सा अजीवनैसृष्टिकी, एतदेव व्युत्पत्त्यन्तरं चेतसि व्यवस्थाप्याह- 10 'अहवा नेसत्थिया जीवे जीव 'मित्यादि व्याख्यातमेवेति । 'तत्र काम्यन्त इति कामा:- शब्दादयस्त एव स्वस्वरूपे 'त्यादि, (१२ - ९) तेषां शब्दादिकामानां स्वकीयं यत्स्वरूपं तदेव गुण इव गुणोदवरकस्तेन यः प्राणिनां बन्धः - सङ्गस्तद्धेतुत्वाद् गुणाः शब्दादयः उच्यन्ते प्राणिनां बन्धहेतुत्वेन रज्जव इतियावत् । एषणास्त्रमित्युदाहरणे 'तस्स य धारणिभज्जा' गाहा, ( १६ - १) सुगमा, नवरं षाण्मासिके गर्भे धिग्जातीयो गौतमो मृतो धिग्जातिका ब्राह्मणी जाते नन्दिषेणे मृतेति शेष: । 15 'मंदभग्गफुक्किय'त्ति (१७ – ७) चितायां प्रक्षिप्य फूमितस्त्वमिति देशीभाषया आक्रोश: । 'सामाइ निसिद्धो मा पियत्ति (२० - ८) एतदुक्तं भवति - सामायिके समभावेऽङ्गीकृते सत्यात्मनोऽपि पीडा निषिद्धा सिद्धान्ते, अतो यथा त्वमस्य साधोः पीडां रक्षसि तथाऽऽत्मनोऽप्यसौ रक्षणीयैव, तदुक्तम्- भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणम्मि परम्मि अ तो वज्जे 'पीडमुभओवि ॥१॥ तस्मात् प्रश्रवणमिदं मा पिबेति तं निवार्यावृत्तः - तुष्टो देव इति । इदानीं 20 पारिस्थापनिका प्रारभ्यते—अत्र च वृत्तिकृता प्रभूता चूणिलिखिता तद्भावार्थस्तु विशिष्ट श्रुतधरगम्यत्वात् तथाविधाम्नायाभावाच्च नास्मादृशां गम्यस्तथापि यथोपलब्धार्थस्याऽऽत्मस्मृत्यर्थं विषमतरपदानां कियतामपि गमनिकामात्रमुच्यते - तत्र 'एवं लोणंपि जाणंतो' इत्यादि, (२५-२) एतदुक्तं भवति - इह पृथ्वीकायस्यात्मसमुत्थं परसमुत्थं च ग्रहणं पुनः प्रत्येकं द्विधा - आभोगतः अनाभोगतश्चेत्युक्तं, तत्र-आत्मसमुत्थं आभोगतो मृत्तिकाया ग्रहणमुक्त लवणस्याप्यतिदेशमाह-एवं लवणमपि जानानो 25 गृह्णाति, मृत्तिकावल्लवणमपि ग्लानादिकारणत आभोगेन गृह्णातीत्यर्थः, अनाभोगत आत्मसमुत्थं पृथ्वीकायस्य ग्रहणं कथमितिचेद् ? इत्याह- अणाभोएण तेण लोणं मग्गित 'मित्यादि (२५-३) तेन साधुना क्वचित्प्रयोजने लवणं याचितं तत्त्वनाभोगतो मिश्रं सचित्तं वा गृहीत्वा आगतो ज्ञाते * પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે.

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442