Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
5
परिशिष्टम्-१ * ४२१ अशिवमृतत्वादवज्ञाहेतोः किलास्य समीपे मुखवस्त्रिका रजोहरणं च न मोच्यते अतस्त्रिदिवगमने * उपयुक्तः सन्प्रतिश्रयस्थितं स्ववपुर्दृष्ट्वा संयतोऽहमासीदिति जानीते, पितृवनभूमौ तु चिह्नाभावान्न
जानीयादतस्तत्रैव क्षणमात्रं ध्रियते इति भावार्थः । 'जेण संथारएण नीणितो विकरणो कीरइत्ति, (७६-९) देवतानयनादिदोषप्रसङ्गात्खण्डीकृत्य परिष्ठाप्यत इति भावः । संयतपारिस्थापनिका समाप्ता। ... इदानीमसंयतपारिस्थापनिकोच्यते-'सा तिहिं कारणेहिं पयहेज्ज'त्ति (छुब्भेज्जा वृ. ८११) तानि चामूनि कारणानि, तद्यथा-प्रत्यनीकतया अनुकम्पया भयेन च, तानि च त्रीण्यपि क्रमेण दर्शयति-तत्रापि प्रत्यनीकतया तावत्खण्डितशीलाया गर्भवत्याः श्रमण्या महोड्डाहोऽयमितिमन्यमानैः साधुभी रजोहरणादिलिङ्गे उद्दालिते ममैतैलिङ्गमपहृतमिति मन्यमाना प्रत्यनीकतया स्वमपत्यं जातं तदाश्रये प्रक्षिपेत् परिव्राजिकादिका वा काचिदिति, अनुकम्पया तु दुष्कालादौ काचिद्दुःस्थित- 10 योषिज्जीवनाय स्वापत्यं तदाश्रये त्यजेद्, भयेन तु विधवादिरिति । 'उप्पेक्खेज्ज वा पओसो वड्डइ'इत्यादि, (८३-८) तस्मिन् शबे वसतौ पतितेऽपि वक्ष्यमाणकारणैरुपेक्षेत-विलम्बेत, तान्येव कारणानि दर्शयति-रजन्या मुखमेव वर्त्तते लोकश्च सञ्चरति ततो विलम्ब्य निःसंचारे विवेकःकार्यः । 'जहा एत्थ आएसो न ऊवेहेअव्वो ताहे विगिंचिअव्वो 'त्ति, (८४-१) अत्रायं भावार्थो–यदि पुनरयमादेशः-प्राघूर्णकोऽनाथ इव लक्ष्यते तदा किञ्चित्संचरेऽपि सागारिकाभावे परिस्थाप्यत एव 15 न विलम्ब्यते, अथातिप्रभातायां रात्रौ शबमिदं दृष्टं भवति तदा सकलमप्यहरतिवाह्यान्यस्यां रात्रौ सागारिकाभावे परिस्थाप्यते, एतच्च सर्वं तदा क्रियते यदैनं वनीपकादिकं न कश्चित्प्रतिचरतिअन्वेषयति, यदा तु कश्चित्प्रतिचरति तदा तस्यैवोपरि क्षिप्यते-तस्यैव समर्प्यत इत्यर्थः, स च यद्रोचते तत्करोतु, “विप्पजढविगिचणं कुज्ज"त्ति गाथायामुक्तं, तत्र 'विप्पजढ'त्ति व्याख्यातं 'विगिचण'मित्येतद्व्याख्यानयन्नाह-'विगिचणं नाम जं तत्थ तस्स भंडोवगरण'मित्यादि, (८४- 20 .३) एतदुक्तं भवति-विप्पजढ इत्यनेन वनीपकादिशबपरिष्ठापनमुक्तं, विगिचणमित्यनेन तु तदुपकरणस्येति, तत्र च वनीपकादिशरीरे खड्गादिघातोद्भूतं यदि रुधिरं न गलति, अथ गलति तदा तत्परित्यज्यते, कुत इत्याह – 'एक्कहा वा बिहा वा मग्गे नज्जिहि'त्ति, (८४-४) एकेन द्वाभ्यां वा अहोभ्यां रुधिररेखानुसारेण मार्गो राजपुरुषादिभिऑस्यत इतिकृत्वा न परिस्थाप्यते, तर्हि किं क्रियते? इत्याह-'बोले 'त्यादि (८४-५) । 'आदिग्गहणेण संसट्ठपाणए वा'इत्यादि, (८५- 25 ३) संसृष्टपानकं नाम भक्तखरण्टितस्थाल्यादिप्रक्षिप्तोदकं गोरसकुण्डलं दधिखरण्टितभाजनं एतेषु भाजनविशेषेषु स्थितमचित्तमिति ज्ञात्वा यदुदकं गृहीतं तत्र पूर्वप्रविष्टसचित्तमत्स्यग्रहणसंभवः शेषं सुगमं यावत्पारिस्थापनिका समाप्ता ।। ___पञ्चम्यामुपासकप्रतिमायां 'असिणाणविअडभोई गाहा, (१०२-३) पूर्वं किल रात्रिभोजने अनियम आसीत्तदर्थमुक्तं "विअडभोइ"त्ति, एतदेव व्याचष्टे-'पगासे'त्यादिना दिनभोजीतियावत् 30 "मउलिकडो"त्ति एतद्व्याचष्टे-'कच्छे'त्यादि कच्छां न बध्नातीत्यर्थः, शेषं सुबोधं, इयं च
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442