Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 437
________________ भसधारी डेभयन्द्रसूरिमृत टीप्पाड ( भाग - ६) अणंतरहिआए । पुढवीए ठाणसेज्जं निसीहिअं वावि चेएइ १६ || ५ || एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलुं। कोलावासपइट्ठा कोल घुणा तेसिमावासो १७|| ६ || संडसपाणसबीए जाव उ संताणए भवति तहियं । ठाणाइ चेयमाणे सबले आउट्टियाए उ१८ ||७|| आउट्टिमूलकंदे पुप्फे अ फले अ बीअहरिए । भुंजंते सबले ऊ १९ तहेव संवच्छरस्संतो ॥८॥ दस दगलेवे कुव्वं तह 5 माइठाणदस य वरिसंतो २० आउट्टिय सीतोदग वग्घारियहत्थमत्ते अ || ९ || दव्वीए भायणेण व दिज्जंतं भत्तपाण धेत्तूणं । भुंजइ सबलो एसो एगवीसो होइ नायव्वो २१ ||१०|| (१२६) । सिमेव य नाणीणं सम्मं न पडितप्पइ 'त्ति (१४४ - ६) श्लोकार्द्धं तेषामेव परमबन्धूनां - आचार्योपाध्यायानां कार्ये समुत्पन्ने भक्तपानादिभिः सम्यग्न प्रतितर्प्पयतीति सम्बन्धः, कथम्भूतः सन्नित्याह- तैरेव ज्ञानेन प्रभावित इत्यध्याहारः, शेषगुणोपलक्षणं चैतत्, ततश्चाचार्यादिभिरेव ज्ञानदर्शनचारित्र10 ग्रहणासेवनाशिक्षादिगुणैः प्रभावितो - गरीयस्त्वमानीतो दध्मातस्तेषामपि कृत्येषु न वर्त्तत इति सूत्रस्यैतद्वृत्त्यक्षराणां च गर्भार्थः । स्थूलभद्रकथानके 'उक्कुइओ वयाणि करेइ 'त्ति (उक्करओवक्कइयाणि करेइ-वृ. २४५ - १) आदेरन्तं यावदन्तादादिं यावत्परावर्त्तते चतुर्द्दशापि पूर्व्वाणीति भावः 'न तरइ पडिपुच्छएण पढिउं ति ( २४५ - ३) निरन्तरवाचनामन्तरेण सप्तप्रतिपृच्छामात्रतोऽध्येतुं न शक्यत इति मुक्त्वा स्थूलभद्रं सर्व्वेऽपि साधवोऽपसृता इति । 'पुव्वं परीसहसमत्थाणं जं 15 उवहाणं कीरति 'त्यादि, ( २४८-६) व्याख्या - विभक्तिव्यत्ययाद्भिन्नक्रमसम्बन्धाच्च परीषहसमर्थैः साधुभिर्यदुपधानं - तपः क्रियते तत्पूर्वमेव यथा लोको न जानाति तथा कर्त्तव्य, कुत इत्याह--' नातं वा कयं न नज्जेज्ज' इत्यादि, ( २४८-७) एतदुक्तं भवति - जनज्ञापनवाञ्छया कृतमपि तथाविधविशिष्टकर्म्मोदयाभावाज्जनैर्न ज्ञायते, कदाचित्तु प्रच्छन्नमपि कृतं तथाविधयशः कीर्त्त्यदयात्सर्व्वत्र ज्ञायत एवेतिभावः, इदमेव दृष्टान्तेनाह - 'कोसंबिअजि- असेणे 'त्यादि (२४९-३) । 'केइ 20 भांति - एसा असोयपुच्छत्ति, ( २६७-७) अत्र केचनाचार्या इत्थमभिदधति-धर्मघोषधर्मयश:साधुभ्यां महावीरसमीपे यका छाया स्थैर्य्यमाश्रित्याशोकवृक्षसम्बन्धिनी पृच्छा कृता सैतावता ग्रन्थेन समाप्ता । 'नारउप्पत्तीए 'त्ति, ( २६८ - १) चः पुनरर्थे नारदोत्पत्तिः पुनरविशिष्टा प्रोच्यते सो उम्मुक्कबालभावो इत्यादिना, न चेत्थमपि तैर्व्याख्यायमाने कञ्चन लाभं हानिं या पश्याम इति । निम्बककथानके सो भणइ - किं खंत ! रुयसि ?, भणइ खंतो- तुमं नामं निबंउत्ति कयं न गोत्तेणं, 25 आयारेहिं तुमंतणएहिं अहंपि ठायं न लभामित्ति, निम्बकेन पिताऽभिहित: - तात ! किं रोदिषि ?, स प्राह-हन्त मया तव निम्बक इति निरन्वयं - नाममात्रमेव कृतं न गोत्रेणेति अन्वर्थमाश्रित्य न कृतमित्यर्थः, त्वया त्वेवमाचरता सान्वर्थकतां नीतमितिभावार्थ:, ततश्चैतैर्दुर्विनयलक्षणैराचारैः तुमंतणएणं णत्ति (२७४ - ३) त्वदीयैरहमपि न क्वचित्स्थानं प्राप्नोमीति, अत्र च मया वृत्तिपुस्तकेषु बहुषु पाठान्तराणि पश्यता साभिप्रायतर इति मन्यमानेनावश्यकचूण्णिदृष्टः पाठोऽसौ व्याख्यातः, 30 पाठान्तराणि तु उक्तानुसारेणाभ्यूह्यानीति । सङ्गपरिज्ञाकथानके— 'भावतोऽभिष्वङ्गः' तमेव व्याचष्टे'स्नेहगुणतो रागः', पुनस्तात्पर्यमाह - 'भावो उ अभिस्संगो त्ति (३१३ - ५) भावो नाम ૪૨૪

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442