Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 432
________________ परिशिष्टम्-१ * ४१८ गृहस्थगृह एव संसक्ते सतीतिभावः, तत्र किमित्याह 'तहेव 'त्ति, (४१-४) यथा गृहस्थपाणि• व्यवस्थितघृतादौ मक्षिकायां पतितायां तदग्राह्यं भवति तथा संस्तारकोऽपि पूर्वसंसक्तौ अकल्प्य इति, अथ स्वीकृतः सन् संसज्यमानो दृश्यते तदा पादपुञ्छनकेन-रजोहरणेन प्रतिदिनं संसक्तिनिषेधाय त्रिकालमपि प्रमााते, अथ तथापि संसज्यते तर्हि तादृग्जातीये काष्ठे मत्कुणाः सङ्क्राम्यन्ते, एतच्च घृताद्यनेषणीयभणनप्रसङ्गत उक्तं अन्यथा मत्कुणानां त्रीन्द्रियत्वात्तद्विधेश्च लेशतः पूर्वमुक्तत्वादिह 5 तदुपादानमपार्थकं स्यात्, पूतरकजातीनां तु बहुत्वात्कश्चिच्चतुरिन्द्रियोऽपि स्यादिति तद्भणनमदुष्टमिति शेषं सुगम, चतुरिन्द्रियपारिस्थापनिका समाप्ता ॥ ___ साम्प्रतं पञ्चेन्द्रियपारिस्थापनिकोच्यते-तत्रापि नपुंसकविधौ ‘असिवे ओमोयरिए' इत्यादि (४४-५) द्वारगाथां भाष्यकृव्याचष्टे 'रायदुट्ठभएसुं ताणडे' इत्यादि (४४-११) गाहा–व्याख्यादुष्टा:-प्रत्यनीका राजा च दुष्टाश्च तेभ्यो भयानि तेषु सत्सु राजवल्लभादिनपुंसकस्तत्राणार्थं दीक्षितो 10 भवति नृपस्य वाऽभिगमनार्थं-अनुकूलनार्थमिति । ग्लानद्वारमाह-यदिवा नपुंसकः स्वयमेव वैद्यो भवति तस्य वा सम्बन्धी कश्चित्स्वजनादिस्तेन प्रव्रजितेन सता ग्लानस्य पथ्यभैषज्यादिना प्रतितप्पिष्यति-उपकरिष्यतीति गाथार्थः । 'गुरुणो य अप्पणो वा'गाहा (४४-१३), गुरोः श्रुतज्ञानं गृह्णत आदिशब्दाद्दर्शनप्रभावकाणि च सम्मत्यादिशास्त्राणि गृह्णतोऽसौ भक्तपानादिभिरुपकरिष्यति, वाशब्दस्य चशब्दार्थत्वादात्मनश्च, परस्यात्मनश्च भक्तपानादिभिर्निर्वाहक्षमत्वाद्दीक्षितः स्यादितिभाव 15 इति ज्ञानदर्शनद्वारद्वयमुक्तं, चरणद्वारमाह-अचरणदेशो नाम यत्र चारित्रं पालयितुं न शक्यते ततो देशाद्गणे निर्गच्छति मार्गग्रामादिषु स्वजनादिबलाद् भक्तपानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति, अवशिष्टं द्वारद्वयमाह-अवमाशिवयोर्वा प्रतितप्पिष्यतीति, अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थं इत्थं द्वारव्याख्या, उत्तमार्थद्वारं तु सुगमत्वान्न व्याख्यातमिति गाथार्थः । 'अज्जाणओ न याणे पन्नवणा कीरई'त्यादिगाथा, एतदुक्तं भवति–ज्ञायकेऽज्ञायके च नपुंसके प्रव्रज्याग्रहणाय समुपस्थिते 20 .न भवतां प्रव्रज्या ग्रहीतुं युज्यते विराधनाप्रसङ्गादित्यादिना प्रज्ञापना क्रियते, यद्येतद्वच इच्छतस्तदा दीक्षा न दीयत एव अनिच्छतस्तद्वचः प्रव्रज्यामेवाभिलषतः आत्मनश्च किञ्चिदशिवाद्यनन्तरोपन्यस्तं कारणमुपस्थितं वर्त्तते तदा वक्ष्यमाणविधिना दीक्षा प्रदीयते, सिद्धे च कार्ये वक्ष्यमाणप्रकारेणैव तस्य परित्यागः क्रियत इति एतदेवाह-'अणिच्छ कज्जे उ एस विहि'त्ति इति गाथार्थः । 'अन्नाए पडिसेहो' इत्यादिनाऽज्ञातपक्षो व्याख्यातः, साम्प्रतं ज्ञातपक्षे विधिमाह-'नायम्मि अन्नदेसे' 25 गाहाव्याख्या-यद्यमीभिरसौ दीक्षित इत्येवं तत्र देशे लोकस्य ज्ञातं भवति तदाऽन्यस्मिन्देशे गत्वाऽसौ परित्यज्यते, अन्ये तु व्याचक्षते-जातेऽपि नान्यत्र देशे गम्यते किन्तु राज्ञा पृष्टैः साधुभिरिदं वक्तव्यंराजन् ! यदि युष्मदीये श्रीगृहे भाण्डागारे कश्चिच्चुक्कति तदा तस्य भवन्तः किं कुर्वते ?, राजा प्राह-निष्काशयामि दण्डेन दण्डयामि, तदाऽस्माकमप्यसौ ज्ञानादिरत्नत्रयलक्षणं श्रीगृहं विनाशयतीति वयमेनं परित्यजाम इत्येवंलक्षणं श्रीगृहोदाहरणं कथयित्वा परित्यज्यते, अथ बहुस्वजनत्वात्तत्रान्यत्र 30 वा देशे न शक्यते परित्यक्तुं तदा वक्ष्यमाणा यतनेति गाथार्थः । नपुंसकपारिस्थापनिकाऽवसिता ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442