Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 427
________________ ૪૧૪ * भसधारीडेभयन्द्रसूरित टीप्पाड (भाग - ६) स्पष्टमिति वायुकायविधिः समाप्तः ॥ साम्प्रतं वनस्पतिविषयो विधिरारभ्यते - तत्राभोगेन सचित्तान्यपि मूलादीनि गृहीत्वा घर्षयित्वा गण्डादिषूपयुज्यन्ते, अनाभोगेन तर्हि किं गृह्णीयादित्याह - भक्ते - कूरादौ करडिप्रभृतीनां सम्बन्धी लोट्टः पतितो भवति, स चानाभोगतो गृहीतः स्यात् पिष्टकं वा यवगोधूमादीनां सम्बन्धि सद्यो 5 दलितमनाभोगतो गृहीतं भवेत् करडिप्रभृतिधान्यानामेव सम्बन्धिनः कुक्कुसा वा गृहीता: स्यु: । 'सो चेव पोरिसिविभागोत्ति, ( ३१ - २) य एव वायुकायविधौ पौरुष्यादिकालविभाग उक्तः स एवेहापि द्रष्टव्यः केवलं तत्राचित्तस्य सतः पवनस्याचित्तमिश्रसचित्तरूपतायां कालविभाग उक्तः अत्र तु लोट्टादे: सचित्तस्य सतः सचित्तमिश्राचित्तरूपतायां कालविभागो योज्यः, तथा पूर्व्वं स्निग्धकाले पौरुष्यो रूक्षकाले तु दिनान्युक्तानि अत्र तु व्यत्ययेन योज्यं, एतदुक्तं भवति - सादात्री 10 पृच्छ्यते - किती वेलाऽस्य कुट्टितस्य लोट्टादेर्वर्त्तते, ततश्च यदि रूक्षकालसम्बन्धिनी पौरुष्येकाऽतिक्रान्ता भवति तदा नाद्याप्यचित्तीभूत इत्यवसेयं, द्वितीयपौरुष्यतिक्रमेऽप्येवमेव, तृतीयपौरुष्यतिक्रमे त्वचित्तीभूत इति पतितोऽपि भक्तमध्ये न परिहार्यो भवति, स्निग्धकालेऽप्येवमेव केवलं पौरुषीस्थाने दिनानि वाच्यानि, एतच्च परिस्थूरन्यायमाश्रित्य दिग्मात्रप्रदर्शनमेव, कदाचिदत्यन्त श्लक्ष्णीकृतकणिक्कालोट्टादिकं झगित्येव परिणमेद् अन्यत्तु बादरबीजशकलयुक्तं चिरमपि सचेतनं सम्भवेदिति, कोऽत्र नियम 15 इत्येतदेवाह - 'दुकुट्टिए चिरंपि होज्ज' (दुक्कुट्ठिओ चिरंपि होज्जा वृ. ३१–३), सचित्तमितिशेषः, तस्माद्देशकालाद्यभिज्ञेन साधुनैवेह निपुणेन भवितव्यं, इदानीं तु कणिक्कादिकं दलनकालादूवं घटिकाद्वयमात्रं च वर्ज्जयन्तो दृश्यन्ते इति यथावगतं गमनिकामात्रमिदमुक्तं तत्त्वं तु केवलिनो विदन्ति अन्येन वा सुधिया अन्यथाऽपि विवेचनीयमिति । 'परो अल्लएण मीसियगं 'ति, ( ३१३) कश्चिद्गृहस्थः सचित्तश्रृङ्गबेरेण मिश्रितं किञ्चित्पूरणादिकं वस्तु दद्यादिति शेषः, चवलकैर्वा 20 मिश्रितानि पीलूनि दद्याद्, अथवा कूरस्य भक्तस्य ओडिका-खोट्टरिका तदन्तः प्रक्षिप्य किञ्चित्सचित्तं फलादिवस्तु दद्यादित्यध्याहारः, करमन्दकैर्वा मिश्रितं काञ्जिकं दद्यात्, तानि हि किल क्वचित्काञ्जिकस्याम्लतापादनार्थं तन्मध्ये प्रक्षिप्यन्त एवेति, अन्यतरो वा मुद्गमाषादिबीजकाय: काञ्जिकादिषु पतितो भवेत् स चानाभोगतो गृहीतः स्यादिति, एवं तिलानामप्यनाभोगतो ग्रहणं भवेत्, क्व पुनस्तेषां संभव इत्याह- 'निंबतिलमाइएस होज्जत्ति, ( ३१ - ५) चैत्रमासे हि किल क्वचिन्निम्बपत्राणि 25 तिलमिश्राणि कुट्टयित्वा हृदयशुद्धर्थं निम्बतिलकाः क्रियन्ते तत्र केचित्सचित्ता अपि स्युः ते च निम्बतिलकां गृह्णानेन गृहीता भवेयुः, आदिशब्दादन्यत्रापि क्वचित्पक्वान्नादौ पतिता भवेयुरिति, अत्र च ग्लानादिकार्ये यत्सचित्तं मूलाद्याभोगेन गृहीतं गृहस्थेन वाऽऽभोगतो दत्तं तत्सिद्धे प्रयोजने परिशिष्टं पूर्वोक्तेन वक्ष्यमाणेन च विधिना परित्यज्यते, तदेवाह - ' जइ आभोगगहिय 'मित्यादि, (३१–५) यत् पुनर्लोट्टपिष्टादिकमनाभोगतः साधुना गृहीतं गृहस्थेन वाऽनाभोगतो दत्तं तद् यदि 30 शक्नोति भक्तमध्याद्विवेक्तुं उद्धर्तुं तदोद्धृत्य प्रथमं तावत् परस्य - दायकस्य सम्बन्धि यत्पात्रं - स्थाल्यादि यत आनीय गृहस्थेन तद्दत्तं तस्मिन्नेव परित्यज्यते यदि दायकः समनुजानीते, अथ न

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442