Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 429
________________ ૪૧૬ . માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) यत्र सक्तवः संसज्यन्ते तत्रासंसक्तस्वरूपं कूरं याचते इति साध्याहारं सर्वत्र व्याख्येयं, अथ चासंसक्तस्वरूपं कूरं न लभते तदा तदैवसिकान् सक्तूनपि याचते, तदैवसिकसक्तूनामभावे बितिए 'त्ति (३५-३) द्विदैवसिकान् तदभावे त्रिदैवसिकान् सक्तून् गृह्णाति तेषामप्यभावे गृहस्थभाजन एव स्थिताः प्रत्युपेक्ष्य२ -संशोध्य२ गृह्यन्ते, अथ वेलातिक्रमो भवति अध्वनि वा ते साधवो वर्तन्ते तदा विधिमाह-'संकिया विभत्ता घेप्पंति'त्ति (संकिया वा मत्ते-वृ. ३५-४), अनन्तरोक्तप्रयोजनौत्सुक्ये ते शङ्किताः सक्तवो विभक्तस्थाने गृह्यन्ते ततश्च बहिरुद्याने देवकुले वा प्रतिश्रयस्य वा बहिर्देशे रजस्त्राणमास्तीर्य तदुपरि चैकं घनमसृणं पटलकं व्यवस्थाप्य तत्र पृथग्गृहीतसक्तवः प्रक्षिप्यन्ते, ततः किं विधेयमित्याह-तिन्नि ऊरणकपडिलेहणातो'त्ति (३५-५) ऊरणिकार्थमूरणिकानां वा प्रत्युपेक्षणाः शोधना ऊरणिकाप्रत्युपेक्षणाः तास्तिस्रो विधीयन्ते, एकः साधुः प्रत्युपेक्षते पुनर्द्वितीयः पुनस्तृतीय 10 इत्यर्थः, कुतश्चित्कारणात् त्रयः साधवो न भवन्ति तदैकोऽपि वारत्रयं प्रत्युपेक्षेत इत्येवं तिस्रः प्रत्युपेक्षणाः, एताश्च यदि प्रथमवेलायामेकापि गड्डरिका न दृश्यते तथापि शङ्कितसक्तुषु तिस्रोऽपि कर्तव्या एव, यदि पुनर्गडरिका दृश्यते तदा वारत्रयं नियमेन पुनः २ प्रत्युपेक्ष्यन्ते तावद्यावदेकस्यां वारायां नैकाऽपि दृष्टा पुनद्वितीयवारं शोध्यते न चैकापि दृष्टा एवं तृतीयवारायमपि नैकापि दृष्टा, तदा यत्कर्त्तव्यं तदाह-नत्थि जति ताहे पुणो पडिलेहणाओ तिन्नि मुट्ठीओ गहाय जइ सुद्धा 15 परिभुज्जंति 'त्ति, (३६-१) व्याख्या यदि नास्ति-न विद्यते एकापि गड्डरिकेति गम्यते, ततः पुनरपि 'पडिलेहणाओ उत्ति प्रत्युपेक्षणात्रयं, अत्र प्रत्युपेक्षिताः सक्तवोऽप्युपचारतः प्रत्युपेक्षणा इत्युच्यन्ते अतः प्रत्युपेक्षणात:- प्रत्युपेक्षितसक्तुभ्यो मध्याद् अथवा नोपचारः, क्रियते किन्तु प्रत्युपेक्षणात:-प्रत्युपेक्षणात्रयादूर्ध्वमित्यर्थः, किं विधेयमित्याह-प्रस्तुतत्वात्तेभ्य एव शोधितसक्तुभ्यो मध्यान्मुष्टित्रयं गृहीत्वा शोध्यते यदि शुद्धास्तर्हि परिभुज्यन्ते, अथ तस्मिन्मुष्टिवये शोध्यमाने 20 एकोऽपि जीवविशेषो दृश्यते तदा मूलात्पुनः सर्वेऽपि शोध्यन्ते, अत्र पाठान्तराणि बहूनि दृश्यन्ते मया त्वावश्यकचूर्णयनुसार्येष पाठो व्याख्यातः, शेषाण्यप्यर्थतः प्रायोऽविसंवादीन्येवातो व्याख्यानुसारतोऽभियुक्तेन व्याख्येयानि, शोध्यमानेषु च सक्तुषु ये प्राणिनो लभ्यन्ते तेषां परित्यागविधिमाह-'जे तत्थ पाणा ते मल्लए' इत्यादि, (३६-२) आकरो नाम गृहस्थसम्बन्धिसक्तुभृतस्थाल्यादिभाजनं, एवं तावदेष संसक्तभक्ते विधिरुक्तो यत्र तु पानकमपि संसज्यते तत्र किं विधेयमित्याह-बीअपाए' 25 इत्यादि, (३६-३) द्वितीयपात्रे संशोध्य २ तत उद्ग्राहितं नाम यस्मिन्पात्रेऽन्यत्पानकं गृह्यमाणमास्ते शुद्धं सत् तत्र प्रक्षिपत्ति, अथ रसजैः संसक्तं तदा स पात्रं परित्यज्यते, अथ नास्ति पात्रं तदा सा मारनालस्थालीलक्षणामम्बिलिं याचते, अथ सार्द्रामम्बिलिं न लभते तदा शुष्कामपि याचते, 'उल्लेउंति अपरा चाम्लेनार्दीकृत्य तस्यां संसक्तमाचाम्लं परिक्षिपति 'असति'त्ति यदि शुष्काऽप्यम्बिली न लभ्यते तदाऽन्यस्मिन्याचित्तभण्डकेऽम्बिलिबीजानि नाम यैस्तन्दुलढुण्ढणकादिभिरम्बिली निष्पद्यते 30 तानि धावनाधुदकमिश्राणि कृत्वा तत्र भण्डकेऽम्लताऽऽपादनार्थं प्रक्षिप्यन्ते, अथ बीजानि न लभ्यन्ते तदा बीजरहितेऽपि तत्र तत्संसक्तपानकं निधीयते, एतच्च भण्डकं यदि गृहस्थेन निर्देयरूपतया सर्वथा

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442