Book Title: Avashyak Niryukti Part 06
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
परिशिष्टम्-१ * ४१५ समनुजानाति तदा स्वपात्रेऽपि-याचितमधुरकर्परादौ निधाय शीतलाचित्तप्रदेशे परित्यज्यते, एतदेव सूचयति–'अणाभोगगहिए' इत्यादि यावत् 'पढमं परपाए 'त्ति, (३२-१) यदि पुनः सलेपद्रव्यमध्यपतिततिलादिकमुद्धर्तुं न शक्नोति तदा सर्वमेव तद्वस्तु यतनया परिहरति, संस्तारके दण्डके वा यदि पनकः संमच्छितो भवति तदा को विधिरिति? उच्यते-यावत्पनको नाद्यापि परिणमति तावत् तत्सहितोपकरणं न परिभुज्यत एव, अथ मार्गे चलिता वर्तन्ते तदा सर्व्वमपि 5 तदुपकरणं त्यज्यते, अथान्यलाभाद्यभावान्न तेनोपकरणेन परित्यक्तेन निर्वहन्ति तदा 'उण्हं सीयं नाऊण विगिंचणं'ति, (३२-२) एतदुक्तं भवति-यदि सोष्मप्रदेशव्यवस्थिते दण्डकाद्युपकरणे स पनकः सम्मूच्छित: स्यात् तदाऽयमुष्णप्रकृतिरिति ज्ञात्वा तस्मिन्नेवोष्णप्रदेशे परित्यज्यते, अथ शीतलप्रदेशोपकरणसम्मूच्छितत्त्वाच्छीतप्रकृतिरिति ज्ञायते तदा शीतलप्रदेश एव परित्ज्यत इति, ननु वनस्पतिपारिस्थापनिकाप्रस्तावे कोऽयमवनस्पतिरूपपनकस्य धवखदिरपलाशादिवनस्पति-भ्योऽत्यन्त- 10 विलक्षणस्य विचार इत्येवं मुग्धप्रेरकेणोक्ते सत्याह-एसवि वणस्सइकाउत्ति (३२-२) एषोऽपि पनको वनस्पतिविशेष एवेति युक्तस्तद्विचार इति, कथम्भूतः पुनरसावित्याह-पच्छाअंतो'त्ति (३२३) पाश्चात्यः-सर्बसूक्ष्मोऽसावित्यर्थो, व्यवहारचारिवनस्पतीनां मध्ये नातः परं सूक्ष्मो वनस्पतिरस्तीतिभावः, सर्वं चेदमक्षरगमनिकामात्रं, तत्त्वं केवलिनो विशिष्ट श्रुतविदो वा विदन्तीति, तेषां च अल्लकपीलुकादीनां “पढम परपाए सपाए" इत्यादिना सामान्येनोक्तेऽपि. परित्यागविधौ पुनर्विशेषं 15 विवक्षुः प्रश्नं कारयति-'का एतेसिं विगिंचणविहि'त्ति, (३२-३) उत्तरमाह-'अल्लगं अल्लगखेत्ते'इत्यादि, यदि दायको न स्वीकुरुते तदा अल्लकं यत्र क्षेत्रे समुत्पद्यते तत्रैव परिष्ठाप्यते शेषाण्यपि पीलुकादीनि आकरे-स्वोत्पत्तिस्थाने परित्याज्यानि, आकराणामभावे किं विधेयमित्याह'निव्वाघाए महुराए भूमीए अंतो वत्ति (३२-४) अत्र वाशब्दोऽनन्तरवक्ष्यमाणपक्षान्तरापेक्षया समुच्चये, निर्व्याघाते-तिर्यगाद्यापातरहिते प्रदेशे सार्द्रमधुरभूम्यन्तः श्रृङ्गबेरादीनि परिष्ठाप्यन्ते मधुरकर्परे 20 वा मधुरवृक्षपात्रे वा निधाय मधुरवननिगुञ्जादौ परिहियन्ते, एतद्विषयं सूत्रं सुगमत्वाद् व्याख्यानानुसारत उन्नेयमिति। वनस्पतिपारिस्थापनिका समाप्ता ॥
साम्प्रतं द्वीन्द्रियपारिस्थापनिकोच्यते-'सत्तुगा वा आलेवणनिमित्तं ऊरणियासंसत्ते'त्यादि, (३४-१४) एतदुक्तं भवति-गण्डादीनामालेपनार्थ-पिण्डिदानार्थं सक्तवो गृहीतास्ते च यदि गड्डरिकासंसक्ता भवेयुस्तदा तन्मध्याद् गड्डरिकादिग्रहणं भवति संशोध्य दायकसम्बन्धिसक्तुयुक्त- 25 स्थाल्यादिभाजनमिहाकरो गृह्यते तत्र ताः प्रक्षिप्यन्ते अथाकरो नास्ति न वा दायकस्तत्र प्रक्षेप्तुं ददाति तदा सक्तुभिः कैश्चित्सह निर्व्याघातप्रदेशे ता गड्डरिका: परिहियन्ते इति क्रियाऽनुवर्तते, ननु ग्लानप्रयोजनगृहीतसंसक्तसक्तूनामयं विधिः, यदा तु संसक्तदेशादौ क्वचित्संसक्तसक्तुकादिग्रहणं भवति तदा को विधिः? इति तत्र विशेषं बिभणिषुः स्वयमेव पक्षान्तरं दर्शयति–'संसत्तदेसे वा कत्थईत्यादि, (३५-१) अत्र विधिमाह-'तं देसं चेव न गम्मई 'त्यादि, (३५-१) यत्र देशे 30 भक्तपानानि संसज्यन्ते तत्र साधुभिर्न गन्तव्यमेव, अथाशिवादिभिः कारणैस्तत्रापि गमनं भवेत् तदा
Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442