Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अतिमुक्तक
11811
www.kobatirth.org
राज्यराष्ट्रबल वृद्धिकारणं, तारणं रणमहापयोनिधेः । आरुरोह वसुधाधवो वरं, वारणं समदवैरिवारणः आरुह्य सामन्तमहीभृतोऽप्य, - प्रसाधितेषु द्विरदेषु सर्वे । प्रावृत्य तस्थुर्विजयावनीशं, सामानिका वा त्रिदशाधिनाथम्
तुरङ्गमेष्वप्यारुह्य, राजपुत्राः सहस्रशः । भास्कराश्वोपमानेषु, क्षितीशमुपतस्थिरे सकिङ्किणीक ध्वजभूषितेषु, जात्याश्वयुक्तेषु महारथेषु |
केचित्समारुह्य नरेन्द्रपुत्राः, पोलाशभूमि (मी) पतिपार्श्वमीयुः
तीक्ष्णाग्रदीप्तायत कुन्तधारिणो, धनुर्भृतः पृष्ठनिबद्धतॄणकाः । _पदातयः खेटकखड्गपाणयः, पुरः प्रचेलुर्विजयावनीशितुः
मायूरातपवारणैः प्रतिनराधीशानुपर्युच्छ्रितैः कुर्वन् व्योमसरः समुत्थितनवश्यामाम्बुजश्रेणिकम् । माद्यत्कुञ्जरगर्जितोर्जित भरैर्हेपास्वनैर्वाजिनाम्, कुर्वाणो रथचीत्कृतैर्ध्वनिमयं सर्व्वं नभोमण्डलम् विलम्बमुक्तावलिनोतमाङ्गो, -पर्यातपत्रेण सुधांशुधाम्ना । स्वात्यम्बुवान सुधाकिरेव, कामप्यभिक्षामवगाहमानः घण्टाटणत्काररये (वे) दन्तिनां दिशोऽभितस्तूर्यरवैश्व पूरयन् । चचाल भक्त्या विजयो नरेश्वरः, श्रीमन्महावीरमनुत्सुको मुदा
For Private And Personal Use Only
।। ६५ ।।
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
118 11
॥ ७० ॥
॥ ७१ ॥
॥ त्रिभिर्विशेषकम् ॥ ७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम् ॥
॥ ४ ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27