Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AAAAAAAORAKAR
अतिमुक्तकः कुमारोऽथ, तदा श्रीविजयाङ्गजः । षड्वर्षः कोमलालापो, वर्तमानः स्वमन्दिरे ॥ १२०॥ लक्षपाकादिभिस्तैलैः, कृताभ्यङ्गथा(ग)ङ्गसौख्यदैः । सुकुमारकरैछेकै,-मर्दितश्चाङ्गमर्दकैः ॥१२१॥ चूर्णैः सुरभिभिः सूक्ष्म,-विहितोद्वर्त्तन: सुधीः । स्नापितो वारयोषाभिः, कवोष्णैर्निर्मलैजलैः ॥ १२२ ॥ गन्धकाषायिकावस्त्र,-निर्जलीकृतविग्रहः । सन्तानवृद्धनारीभिः, कृतकौतुकमङ्गलः
॥१२३ ॥ परिधाय महामूल्य,-वस्त्ररत्नानि सादरम् । समस्तावयवेषूच्चै,-रामुक्ताशेषभूषणः
॥ १२४॥ निजगेहाद्विनिर्गत्य, क्रीडितुं सोऽतिमुक्तकः । प्रधानस्वपरीवारो,-राजमार्गमवातरत् ॥१२५ ॥ पञ्चभिः कुलकम् ॥
अनेकामात्यसामन्त, चालकैः कलिलोलुपैः । स्वसमानवयोऽवस्थै,-विमानैरितस्ततः चलच्चूलालतारम्यै,-र्गाढसंयमितांशुकैः । दृढसंहननैर्द:, रुल्ललद्भिर्मगैरिव
॥ १२७॥ कन्दुकैर्जात्यगाङ्गेय,-निर्मितैरतिवर्तुलैः । सुरत्नखचितैर्दीप्त, लोचनप्रमदप्रदैः
॥१२८॥ राजमार्गेऽतिविस्तीर्णे, स रेमे विजयाङ्गजा। जयन्त इव गीर्वाण,-कुमारैमुदितो दिवि ।। १२९ ॥ चतुर्भिश्च कुलकम् ॥
सुचिरक्रीडयाऽऽक्रान्तः, स विश्राम्यस्ततः क्षणम् । दिशोऽवलोकयन् याव,-त्तस्थौ स्वेदजलाविलः ॥१३० ॥ उच्चनीचकुलेपूच्चैः, पर्यटन्तं महामुनिम् । ददर्श गौतमं ताव,-दतिमुक्तकुमारकः
॥१३१ ॥ पप्रच्छ विस्मयोत्फुल्ल, नेत्रस्तं सोऽतिमुक्तकः । के यूयं हेतुना केन, भ्रमत्थं गृहे गृहे
॥ १३२॥ देवानां प्रिय ! कल्याणि,-निर्ग्रन्थाः श्रमणा वयम् । भिक्षार्थ पर्यटामोजातिमुक्तं प्राह गौतमः ॥१३३ ॥
ॐॐॐॐॐ
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27