Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अतिमुक्तक
चरित्रम्॥
%AE%A
CROCOCCARE*
अथानन्यसुखस्तिष्ठन् , पुरतो निश्चलासनः । प्राञ्जलिर्वदनद्वारे, दधानो मुखवत्रिकाम् मुक्तो निद्राप्रमादेन, विकथाभिर्विवर्जितः । आनन्द जनयन्नुच्चै,-गुरूणां गुणशालिनाम् ॥१८१ ॥ स्थविरेभ्यः स्थिरप्रज्ञो, बहुमानपुरस्सरम् । शुश्रावासौ श्रुतस्यार्थ,-मतिमुक्तमुनिर्मुदा ॥१८॥ त्रिभिर्विशेषकम् ।। तथा तेऽप्याऽऽगमस्यार्थ,-मेतस्मै व्याचचक्षिरे । बुबुधे सोऽप्यनायासा, दतिम्रक्ष्मतरं यथा ॥ १८३॥ किं भूयसा स गीतार्थः, सर्वत्र कुशलोऽभवत् । साधुक्रियाकलापेषु, दिनैः कतिपयैरपि
॥१८४॥ सुभद्रशालनन्दनः, समुन्नतिप्रकर्षवान् । स्थिरः सुवर्णरत्नभू, सुपर्वतो+तो यथा समुद्रसंहते रत्न, वृहत्तरसुवृत्तवान् , अलब्धमध्यतान्वितो, यथान्त्यनिम्नगापतिः सितांशुकः प्रमोदकः, समस्तलोकचक्षुषाम् । यथैव पूर्णिमाहिमद्युतिर्महोभिरन्वितः
॥१८७॥ मदोद्धतानपि क्षिती, परप्रवादिकुञ्जरान् । प्रणाशयन् विदूरतो, यथैव गन्धसिन्धुरः
॥ १८८॥ स्खलद्गतिर्न कुत्रचि,-महाबलाङ्गसंस्थितिः । सदामिषप्रयोषक,-द्यथा कुरजाशात्रवः तमस्ततिं विलुण्टयन् , विलूनजाड्यसन्ततिः। विराजितः सुतेजसा, क्षमारसं प्रपोषयन् स्वपादसङ्गमेन सो,-तिमुक्तकाभिधो मुनिः। पुपाव भूमिमण्डलं, प्रभाकरो यथाऽखिलम् सप्तभिः प्रमाणीच्छन्दोभिः कुलकम् ॥ क्रोधोद्दामज्वलज्ज्वाला, नलं प्रशमयन्त्रयम् । लसत्प्रशमपीयूष,-चारिपूरेण सर्वसः
॥१९२॥
CAREEN
॥९॥
For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27