Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिमुक्तक
चरित्रम् ॥
तथा परिवृताङ्गका मू(म)लिनचारुचीनांशुकै,-विचित्रवरकञ्चुकाः परिहृतोरुदिव्यांशुकाः । ययुर्नगरनाय(यि)काश्चरमतीर्थपं वन्दितुं, वनं चरणचर्यया गतिविनिर्जितेभाङ्गनाः ददर्शाथ नृपश्छत्रा-तिच्छत्रं त्रिजगत्प्रभोः । चन्द्रविम्बमिवानन्द, दायि वृत्तं शुभोदयम् ततः स्तम्बेरमात्तस्मा,-दुत्ततार नराधिपः । शौर्यावर्जितसचौधः, पश्चास्यः पर्वतादिव
॥८४॥ ततश्चरणचारेण, राजहंसश्चचाल सः । शुद्धपक्षद्वयः शोण,-क्रमणे हितमानसः
॥८५॥ समवसरणद्वारं प्राप्तो मुमोच नरेश्वरो, वरमसिमुपानत्के रम्य(म्य)सितातपवारणम् । चमरयुगली कोटीरं चोत्तमाङ्गनिवेशितं, व्यसृजदखिलास्ताम्बूलादीनपीह सचेतनान् एकशाटथुत्तरासङ्गं, विधाय वसुधाधवः । प्रविवेशोत्तरद्वारा, सुसमाहितमानस:
॥८७॥ अलञ्चकाराञ्जलिसंपुटेन, स्वोमिकासश्चयभास्वरेण । शिर किरीटेन यथा तदेव, यथैव वारं नृपतिर्ददर्श ।। ८८ ॥
प्रदक्षिणानां त्रितयं विधाय, नृपो महावीरजिनेश्वरस्य ।
जानुद्वयं हस्तयुगं ललाटं, भृमौ समाशय्य नतिं चकार ततो बध्ध्वाञ्जलिं राजा, प्रयतः पुरतः प्रभोः । स्तवनं कर्तुमारेभे, सद्भुतगुणकीर्तनम्
॥९ ॥ उन्नतः काश्चनश्रीक,-स्त्वत्तो न्यूनः सुराचलः । प्रख्यातो(s)मन्दरागोऽसौ, वीतरागस्त्वमुच्यसे ॥९१॥ हीनः कल्पतरुस्त्वत्त,-चिन्तितार्थप्रदोऽपि हि । यतस्ते तनुते नाथ !., चिन्ता चिन्तातिगं पदम् ॥९२ ॥
-
॥१०॥
18॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27