Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 13
________________ -सङ्घट्टक वि. सं. ११६४ वर्षेषु चानेन जिनवल्लभगणिना निजाष्टसप्ततिका - धर्मशिक्षाऽऽदि चित्रकूट - नरवर - नागपुर - मरुपुरादिषु स्वप्रतिष्ठितवीरविधिचैत्यादिषु प्रशस्तिरूपेणोत्कीर्ण कारितमासीदिति श्रूयते । वि. सं. ११४१ वर्षे दीक्षाभाकू, वि. सं. १९६९ वर्षे सूरिपदप्रतिष्ठितः, वि. सं. १२११ वर्षे च स्वर्गभाक् प्रस्तुतकाव्यत्रयीप्रणेता जिनदत्तसूरिरेतस्य जिनवलभाख्यनिजगुरोर्भूरिगुणस्तुतिरूपा चर्चरीं व्यरचयत्, यात्र समीक्ष्यते । यत्र जिनवल्लभसूरेरसाधारणविद्वत्त्वं तत्प्रकटितविधिपथस्य चाम्नायः प्राबोधि । तथा च स एव सूरिर्गणधर सार्धशतके स्वगुरुपरम्पराप्रदर्शनपूर्वमलङ्कारालङ्कृतां विस्तृतां गुरुपारतन्त्र्यस्तवे च संक्षिप्तां जिनवल्लभसूरिस्तुतिं समकार्षीत्, परिशिष्ट ( २ - ३ ) दर्शनेन तत् प्रकटं परिज्ञातं भविष्यति । वि. सं. ११७० वर्षे मुनिचन्द्रसूरिणा जिनवल्लभीयसार्धशतकस्य चूर्णिर्व्यरचि । वि.सं. ११७० वर्षे धारायां जिनदत्तसूरिशष्येण जिनरक्षितसाधुना, वि. सं. ११७१ वर्षे पत्तने जयसिंहराज्ये जिनदत्तसूरिशिष्यब्रह्मचन्द्रगणिना च लिखितायां कवि पल्हप्रणीतायां पट्टावल्यां जिनवल्लभस्य नाम परिपठ्यते ( परि. ४ ) । वि. सं. ११७१ वर्षे धनेश्वरसूरिसमर्थितयां जिनवल्लभ गणिप्रणीतस्य सूक्ष्मार्थविचारसारापरनामसार्धशतकस्य वृत्तार्वेपि जिनवल्लभस्य सूरिविशेषणमभयदेवसूरिशिष्यत्वं च व्याहारि । जिनवल्लभसूरिरचितस्यागमिकवस्तुविचारसारापरनामषडशीतिकस्य वृत्तिर्जयसिंहदेवराज्ये वि. सं. ११७२ वर्षे बृहद्गच्छीयजिनदेवोपाध्यायशिष्य हरिभद्रसूरिणा समर्थिता भावनगरस्थयाSSत्मानन्दसभया प्राचीनकर्मग्रन्थेषु प्रकाशिता समुपलभ्यते । १ शशि - मुनि - पशुपतिसङ्ख्ये वर्षे विक्रमनृपादतिक्रान्ते । चैत्रे सितसप्तम्यां समर्थितेयं गुरौ वारे ॥ - सा. श. वृत्तौ धनेश्वराचार्यः । २ कर्मप्रकृति - पञ्चसंग्रहा दिशास्त्रादेवोद्धृत्य कर्मगत कतिचित्पदार्थानां प्रसङ्गतस्तदितरेषां च केषांचित् प्ररूपणाय सूक्ष्म पदार्थनिष्कनिष्कषणकष पट्टकसं निभप्रतिभः श्रीजिनवल्लभाख्यः सूरिः सार्धशतकाख्यं प्रकरणं चिकीर्षुः + + - सा. श. वृ. प्रारम्भे धनेश्वराचार्यः । ' जिणवल्लद्गणि'त्ति जिनवल्लभगणिनामकेन मतिमता सकलार्थसंग्राहिस्थानाङ्गाद्यङ्गोपाङ्गपञ्चाशका दिशास्त्रवृत्तिविधानावाप्तावदातकीर्तिसुधाधवलितधरामण्डलानां शिष्येण लिखितं कर्मप्रकृत्यादिगम्भीरशास्त्रेभ्यः समुद्धृत्य दृब्धं जिनवल्लभगणिलिखितम् । - सा.श. ( भावनगरस्थया जैनधर्म- प्रसारकसभया प्रकाशित ) - . प्रान्ते श्रीमदभयदेवसूरीणां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 248