Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
" सुविहितसूत्रधारो जयति जिनवल्लभो गणिः ।
येन पिण्डविशुद्धिप्रकरणमकारि चारित्रभवनम् ॥ xx . तत्र विशुद्धसिद्धान्तसुधासारणिः श्रीजिनवल्लभगणिः संक्षिप्तरुचीनामनुग्रहार्थं संगृह्य यतीनामाहारदोषोद्धरणं पिण्डविशुद्धिप्रकरणं चिकीर्षुः xx
-पि. वि. दीपिकाप्रारम्भे । इति विविधविलसदर्थसुविशुद्धाहारमहितसाधुजनम् । श्रीजिनवलभरचितं प्रकरणमेतन्न कस्य मुदे ? ॥ मादृश इह प्रकरणे महार्थपङ्क्तौ विवेश बालोऽपि । यवृत्त्यङ्गुलिलग्नस्तं श्रयत गुरुं यशोदेवम् ॥"
-पि. वि. दीपिकाप्रान्ते ( पत्तनीयभां० सूची) वि. सं. १२९५ वर्षे सुमतिगणिना विरचितायां गणधरसार्धशतकबृहद्वत्तौ प्रादशीत्थं श्रीजिनवल्लभसूरेश्वरितम्
___“ पूज्याः श्रीअभयदेवसूरयः श्रीपत्तनमलञ्चक्रिरे । नूनमेत एव कुशाग्रीयमतयो निखिलसिद्धान्तपारगाः सुविहितचक्रवर्तिनो युगप्रवराः संविग्नव्रतिव्रातग्रामण्यः पुण्यपात्रमित्यादि प्रसिद्धि प्राप्ताः सर्वत्र महीमण्डले । इतश्च तस्मिन् समये आसिकाभिधानदुर्गवासी देवगृहनिवासी कूर्चपुरीयो
जिनेश्वराचार्य आसीत् । तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य बाल्य बुद्धि, दाक्षा, मठे पठन्ति । तत्र च जिनवल्लभनामा श्रावकपुत्रोऽस्ति । तस्य विद्याभ्यासः
जनको दिवं गतस्तं जननी प्रतिपालयति । पाठयोग्यश्चासौ प्रक्षिप्तस्तया तत्र मठे पठितुम् । सर्वेभ्यश्चट्टेभ्यस्तस्याधिकः पाठ आगच्छति । अथ कथञ्चित् तेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तम् । तत्र च विद्याद्वयं लिखितमस्ति सर्पाकर्षणी सर्पमोचनी च । ततः कण्ठगतां कृत्वा यावत् प्रथमा विद्या प्रत्ययाय पठिता, तावत् स्फटाटोपभीषणाः फूत्कुर्वाणाश्चञ्चलललज्जिह्वायुगलाः स्फुरदरुणलोचनाः सर्वाभ्यो दिग्भ्य आगच्छन्तो विद्याप्रभावाकृष्टा [ दृष्टा ] महानागाः । निर्भयचेतसा चिन्तितं तेन नूनं सप्रत्ययेयं विद्या । पुनरुचारिता द्वितीया, तस्याः प्रभावेण पुनः पश्चान्मुखाश्चलिताश्चक्षुःश्रवसः। एतच्च तत्स्वरूपं श्रुतं सूरिणा, ज्ञातं च निश्चितं सात्त्विकः पुण्या(गुणा)धिको गुण(पुण्य)पात्रमेष तस्मादात्मसात् कर्तुं युक्त इति । ततस्तं १ शर-निधि-दिनकरसल्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरिय नन्दतात् सुचिरम् ।' – जेसलमेरभां०सूची ( अप्र०पृ० ५०, पृ० ३९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 248