Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 14
________________ पूर्वोक्तस्य वस्तुविचारसारस्य प्राकृतविवरणमेतस्यैव जिनवल्लभसूरेः शिष्येण रामदेवगणिना विहितं विलोक्यते ( जेसलमेरभां० सूची पृ. ४६ ) यस्य रचना वि. सं. ११७३ वर्षे इत्यन्यत्र पठ्यते । जिनवल्लभसूरिप्रणीतस्य पिण्डविशुद्धिप्रकरणस्य वृत्तिश्चान्द्रकुलीनचन्द्रसूरेरन्तेवासिना यशोदेवसूरिणा वि सं. ११७६ वर्षे दृब्धोपलभ्यते ( जेसलमेरभां० सूची पृ. ३५, पत्तनीयभा० सूची च द्रष्टव्या) सुप्रसिद्धवैराग्यशतककर्तुः कविपद्मानन्दस्य पित्रा जिनवल्लभसूरिशान्तोपदेशामृतसिक्तेन धनदेवश्रेष्ठिना नागपुरे नेमिनाथसदनं निर्मापितमासीत् " सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः __श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः ।। पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये ॥" --वैराग्यशतकप्रान्ते । सुप्रसिद्धसिद्धान्तव्याख्याता कुमारपालभूपालसमकालीनो मलयगिरिरपि जिनवल्लभीयषडशीतिकं व्याख्यातवान् । चान्द्रकुलीनधनेश्वरसूरि-(वि. सं. ११७१ वर्षे जिनवल्लभीयसार्धशतकवृत्तिकृत् )-प्रशिष्योऽजयदेवार्णोराजादिसम्मानितधर्मसूरेः शिष्यो यशोभद्रसूरिर्जिनवल्लभीयागमिकवस्तुविचारसारविवरणे इत्थमुल्लिखति स्म "कासौ श्रीजिनवल्लभस्य रचना सूक्ष्मार्थचर्चाऽञ्चिता केयं मे मतिरग्रिमाप्रणयिनी मुग्धत्वपृथ्वीभुजः । पङ्गोस्तुङ्गनगाधिरोहणसुहृद् यत्नोऽयमायांस्ततोऽसद्ध्यानव्यसनार्णवे निपततः स्वान्तस्य पोतोऽर्पितः ॥” -पत्तनीयभां० सूची ।। वि. सं. १२२३ वर्षे सूरिपदभृत् वि. सं. १२७७ वर्षे च स्वर्गभाग जिनपतिसूरिर्जिनवल्लभीयसङ्घपट्टकविवृतिप्रारम्भे प्रवक्ति स्म "केमाः श्रीजिनवल्लभस्य सुगुरोः सूक्ष्मार्थसारा गिरः क्वाहं तद्विवृतौ क्षमः क्लमजुषां दुर्मेधसामग्रणीः । द्विद् ड् )गन्न(?)द्विपदन्तभञ्जनभुजस्तम्भैर्जयश्रीः क नु प्राप्या सङ्गरमूर्धनि व्यवसितः क्लीबः क्व तल्लिप्सया ।। १ अग्रे प्रदर्थमानजिनदत्तसूरिचरितेऽस्य संवादोऽवलोक्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 248