________________
पूर्वोक्तस्य वस्तुविचारसारस्य प्राकृतविवरणमेतस्यैव जिनवल्लभसूरेः शिष्येण रामदेवगणिना विहितं विलोक्यते ( जेसलमेरभां० सूची पृ. ४६ ) यस्य रचना वि. सं. ११७३ वर्षे इत्यन्यत्र पठ्यते ।
जिनवल्लभसूरिप्रणीतस्य पिण्डविशुद्धिप्रकरणस्य वृत्तिश्चान्द्रकुलीनचन्द्रसूरेरन्तेवासिना यशोदेवसूरिणा वि सं. ११७६ वर्षे दृब्धोपलभ्यते ( जेसलमेरभां० सूची पृ. ३५, पत्तनीयभा० सूची च द्रष्टव्या)
सुप्रसिद्धवैराग्यशतककर्तुः कविपद्मानन्दस्य पित्रा जिनवल्लभसूरिशान्तोपदेशामृतसिक्तेन धनदेवश्रेष्ठिना नागपुरे नेमिनाथसदनं निर्मापितमासीत्
" सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः __श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः ।। पद्मानन्दशतं व्यधत्त सुधियामानन्दसम्पत्तये ॥"
--वैराग्यशतकप्रान्ते । सुप्रसिद्धसिद्धान्तव्याख्याता कुमारपालभूपालसमकालीनो मलयगिरिरपि जिनवल्लभीयषडशीतिकं व्याख्यातवान् ।
चान्द्रकुलीनधनेश्वरसूरि-(वि. सं. ११७१ वर्षे जिनवल्लभीयसार्धशतकवृत्तिकृत् )-प्रशिष्योऽजयदेवार्णोराजादिसम्मानितधर्मसूरेः शिष्यो यशोभद्रसूरिर्जिनवल्लभीयागमिकवस्तुविचारसारविवरणे इत्थमुल्लिखति स्म
"कासौ श्रीजिनवल्लभस्य रचना सूक्ष्मार्थचर्चाऽञ्चिता
केयं मे मतिरग्रिमाप्रणयिनी मुग्धत्वपृथ्वीभुजः । पङ्गोस्तुङ्गनगाधिरोहणसुहृद् यत्नोऽयमायांस्ततोऽसद्ध्यानव्यसनार्णवे निपततः स्वान्तस्य पोतोऽर्पितः ॥”
-पत्तनीयभां० सूची ।। वि. सं. १२२३ वर्षे सूरिपदभृत् वि. सं. १२७७ वर्षे च स्वर्गभाग जिनपतिसूरिर्जिनवल्लभीयसङ्घपट्टकविवृतिप्रारम्भे प्रवक्ति स्म
"केमाः श्रीजिनवल्लभस्य सुगुरोः सूक्ष्मार्थसारा गिरः
क्वाहं तद्विवृतौ क्षमः क्लमजुषां दुर्मेधसामग्रणीः । द्विद् ड् )गन्न(?)द्विपदन्तभञ्जनभुजस्तम्भैर्जयश्रीः क नु
प्राप्या सङ्गरमूर्धनि व्यवसितः क्लीबः क्व तल्लिप्सया ।। १ अग्रे प्रदर्थमानजिनदत्तसूरिचरितेऽस्य संवादोऽवलोक्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org