________________
१०
तथापि तस्यैव पदप्रसादः फलिष्यति द्राक् मम निर्विवादः । किमङ्ग ! पङ्गोर्भवनाङ्गणस्पृक् कल्पद्रुमः पूरयते न कामान् ? ॥
इह हि सदृशां पदार्थसार्थप्रकटनपटीयसि समूलकाषङ्कषितनिःशेषदोषे निर्वाणचरमशिखरिशिखरमधिरूढे भगवति भास्वति श्रीमहावीरे, तदनु दुष्षमासमयभविष्णुदशमाश्चर्यमहादोषान्धकारोदयात् तनिमानमासादयति जिनराजमार्गे, मन्दायमानेषु सदृष्टिषु सात्त्विकेषु सत्त्वेषु, प्रोज्जृम्भमाणेषु सदालोकबाह्येषु तामसेषु, निरङ्कुशमत्तमतङ्गजवद् यथेच्छं गर्जत्सञ्चरिष्णुषु प्रमादमदिरामदावदायमानानवद्यविद्यासम्पत्तिषु सातशी - लतया स्वकपोलकल्पनाशिल्पिकल्पितजिनभवननिवासेषु चौलुक्यवंशमुक्तामाणिक्यचारुतत्त्वविचारचातुरीधुरीण - विलसदङ्गरङ्गनृत्यन्नीत्यङ्गनारञ्जितजगज्जनसमाज – श्रीदुर्लभराजमहाराजसभायाम् अनल्पजल्पजलधिसमुच्छलदतुच्छविकल्पकल्लोलमालाकवलितवहलप्रतिवादिकोविदग्रामण्या संविग्नमुनिनिवहाग्रण्या सुविहितवसतिपथप्रथनरविणा वादिकेसरिणा श्रीजिनेश्वरसूरिणा श्रुतियुक्तिभिर्बहुधा चैत्यवासव्यवस्थापनं प्रति प्रतिक्षिप्तेष्वपि लाम्पय्याभिनिवेशाभ्यां तन्निर्बन्धमजहत्सु यथाच्छन्देषु ततस्तदुत्सूत्र देशनाविरलगरललहरीचरीकृष्यमाणहृदयभूमिनिहितचेतनाबीज मुदग्रदुर्निग्रहकुग्रहावग्रहशोशुष्यमाणविवेकाङ्कुरं निरर्गलमुखकुहरनिःसरद्दुर्वाणीकृपाणीकृत्तधार्मिकमर्माणं श्राद्धसङ्घ निरीक्ष्य तदुपचिकीर्षया हृद्यानवद्यसमग्रविद्यानितम्बिनीचुम्बितवदनतामरसः सान्द्रसंवेगशास्त्रार्थ रसायनपानवान्तकामरसः सुविहितमुनिचक्रवालशिखामणिः सिद्धान्तविपर्यस्तप्ररूपणमहान्धकारनिकारतरणिः सुगृहीतनामधेयः प्रणतप्राणिसन्दोहवितीर्णशुभभागधेयः चैत्यवासदोषभासन — सिद्धान्ताकर्णनापासितकृतचतुर्गतिसंसारायासजिन भवनवासः सर्वज्ञशासनोत्तमाङ्गस्थानादिनवाङ्गवृत्तिकृच्छ्रीमदभयदेवसूरिपादसरोजमूले गृहीतचारित्रोपसम्पत्तिः करुणासुधातरङ्गिणीतरङ्गरङ्गत्स्वान्तः सुविधिमार्गावभासनप्रादुः षद्विशद कीर्तिकौमुदीनिषूदितदिक्सीमन्तिनीवदनध्वान्तः स्वस्योपसर्गमभ्युपगम्यापि विदुषा दुरध्वविध्वंसनमेवाधेयमिति सत्पुरुषपदवीमदवीयसीं विदधानः समुज्जितभूरिर्भगवान् श्रीजिनवल्लभसूरिः मोहान्धतमसध्वंसनपटिष्ठसत्पथप्रकाशन गरिष्ठरत्नदीपायमानं दुर्वासनाशिलासञ्चयकुट्टाकं श्रीसङ्घपट्टकाव्यं प्रकरणं चिकीर्षुः xx"
सङ्घपट्टकविवृतिप्रान्ते-
Jain Education International
66
सूरिः श्री जिनवल्लभोऽजनि बुधश्चान्द्रे कुले तेजसा सम्पूर्णोऽभयदेवस्रिचरणाम्भोजालिलीलायितः ।
For Private & Personal Use Only
www.jainelibrary.org