SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ११ चित्रं राजसभासु यस्य कृतिनां कर्णे सुधादुर्दिनं तन्वाना विबुधैर्गुरोरपि कवेः कैर्न स्तुताः सूक्तयः ? ॥ १ ॥ हित्वा वाङ्मयपारदृश्वतिलकं यं दीप्रलोकम्पृणं प्रज्ञानामपि रञ्जयन्ति गुणिनां चित्राणि चेतांस्यहो ! । लुण्टाक्यश्च्युततन्द्रचन्द्रमहसामद्याप्यविद्यामुषः कस्यान्यस्य मनोरमाः सकलदिक्कूलङ्कषाः कीर्तयः ? ॥ २ ॥ माधुर्यशार्करितशर्करया रयाद् यं पीयूषवर्षमिव तर्कगिरा किरन्तम् । विद्यानुरक्तवनिताजनितास्यलास्यं हित्वा परत्र न मनो विदुषामरंस्त ॥ ३ ॥” पञ्चलिङ्गीविवरणप्रान्ते— "" Jain Education International तदनु समभूच्छिष्यस्तैस्य प्रभुर्जिनवल्लभो जगति कवितागुफा यस्य द्रवद्रसमन्थराः । अनितरकविच्छायापत्त्या चमत्कृतिञ्चव न हृदि मधुरा लग्नाः कस्य स्मरस्य यथेषवः ? || " इत्यादि । वि. सं.१२४५ वर्षे जन्मभाजो जिनेश्वरसूरेः पिता जिनवल्लभसूरिगुणवर्णनगीतनिर्माता मरुकोट्टनिवासी नेमिचन्द्रभाण्डागारिक इत्थं प्रास्तत्"अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तडयडा केइ । परं जिणवल्लहसरिसा पुणो वि जिणवल्लहो चेव || वय व सुगुरुजिणवल्लहस्स केसिं न उल्लसइ सम्मं । अह कह दिणमणितेयं उल्लूयाणं हरइ अंधत्तं ! ॥ दिट्ठा विकेवि गुरुणो हियए न रमंति मुणियतत्ताणं । के वि पुण अदि चिय रमंति जिणवल्लहो जेम ॥ - ष्टिशतकप्रकरणे ( गा. १०७,८,१२९ ) 35 १ तच्छदेनात्राग्रेऽपि च नवाङ्गीवृत्तिकर्तुः सुप्रसिद्धस्याभयदेवसूरेरुपादानम्, यच्चरितं गणधर सार्धशतकवृत्ति- प्रभावकचरितादौ प्रेक्ष्यते । २ ‘इति परमार्हतभां॰नोमचंद्र कृतानि श्रीजिम (न) वल्लु (लु)भसूरिगुरुगुणवर्णना गीतानि । ' ३ अद्यापि गुरवो गुणिनः शुद्धा दृश्यन्ते क्रियाकठोराः केऽपि परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव ॥ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक् । अथ कथं दिनमणितेज उलूकानां हरत्यन्धत्वम् ? ॥ दृष्टा अपि केsपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् । केsपि पुनरदृष्टा एव रमन्ते जिनवल्लभो यथा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy