SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १२ वि. सं. १२७८ वर्षे जयन्तविजयकाव्यकर्ता जिनशेखरसूरिप्रशिष्योऽभयदेव सूरिरिदं पद्यद्वयं व्याजहार -- निजगाद “ तच्छिष्यो जिनवल्लभः प्रभुरभूद् विश्वम्भराभामिनीभास्वद्भालललामकोमलयशःस्तोमः शमारामभूः । यस्य श्रीनरैवर्मभूपतिशिरःकोटीररत्नाङ्कुरज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी || कश्मीरानपहाय सन्ततहिमव्यासङ्गवैराग्यतः प्रोन्मीलद्गुणसम्पदा परिचिते यस्यास्यपङ्केरुहे । सान्द्रामोदतरङ्गिता भगवती वाग्देवता तस्थुषी धारालामलभव्यकाव्यरचनाव्याजादनृत्यच्चिरम् ॥ — जयन्त विजयकाव्यप्रान्ते । वि. सं. १२८५ वर्षे जेसलमेरौ धन्य - शालिभद्रचरित्रकारः पूर्णभद्रगणिरिदं Jain Education International १ दिक्करि - कुलगिरि - दिनकरपरिमितविक्रमनरेश्वरसमायाम् । द्वाविंशतिशतमानं शास्त्रमिदं निर्मितं जयतु ॥ - नि. सा. २ वि. सं. ११६१, ११६४ वर्षीयौ नरवर्मनृपसत्तायां सङ्कलितौ शिलालेखौ प्रसिद्धिं प्राप्तौ (ए. इ. भा०२, पृ १८२, ट्रा. रो. ए. सो. भा० १, पृ. २२६ ) गूर्जरेश्वर सिद्धराज जयसिंहेन द्वादशं वर्षाणि यावत् प्रयुध्य कृच्छ्रेग पराभूतोऽयं मालवपतिर्यद्विषये गूर्जरेश्वरपुरोहितः सोमेश्वर इत्थमुद्गिरति स्म - "क्षित्वा धारापतिं राजशुकवत् काष्ठपञ्जरे । यः काष्टापञ्जरे कीर्तिराजहंसीं न्यवीविशतू ॥ एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥ तथा च वि. सं. १४२२ वर्षे कृष्णर्षिगच्छीयजयसिंहसूरि : ܕܕ " - कीर्तिकौमुदी (स० २, श्लो० ३१-३२ ) 66 ' कर्णस्य मयणल्लासुकुक्षिशुक्त्येकमौक्तिकम् । तनयो न्यायवान् जज्ञे जयसिंहो महीपतिः ॥ कृत्वा विग्रहमुग्रसैन्यनिवहेर्यो द्वादशाब्दप्रमं प्राग्द्वारं विदलय्य पट्टकरिणा भङ्क्त्वा च धारापुरीम् । बद्धा श्रीनरवर्मभूववमदःपादांग्रचर्मार्जितं कोशं स्वं परिधाप्य खड्गमभवत् तीर्णप्रतिज्ञाभरः ॥ " For Private & Personal Use Only - कुमारपालचरितमहाकाव्ये ( वो० ४०-४१ ) www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy