SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ " आकर्ष्याभयदेवमूरिसुगुरोः सिद्धान्ततत्त्वामृतं येनाज्ञायि न सङ्गतो जिनगहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहवसतिर्निर्दूषणा शिश्रिये सूरिः श्रीजिनवल्लभोऽभवदसौ विख्यातकीर्तिस्ततः ॥ " -जेसलमेरभां०सूची (पृ. २) वि. सं. १२९३ वर्षे जिनवल्लभीयद्वादशकुलकानां विवरणकारो जिनपालगणिर्जिनवल्लभमित्थं परिचाययति स्म " श्रीमच्चान्द्रकुलाम्बरैकतरणेः श्रीवर्धमानप्रभोः शिष्यः सूरिजिनेश्वरो मति-वचः-प्रागल्भ्यवाचस्पतिः । आसीद् दुलेभराजराजसदसि प्रख्यापितागारवद् वेश्मावस्थितिरागमज्ञसुमुनिव्रातस्य शुद्धात्मनः ॥ तस्मादभूद् नवनवाङ्गविवृतिवेधा मेधानिधेस्तनुतरो जिनचन्द्रसूरेः । संस्थापितानुपमधामजिनेन्द्रपार्श्वः श्रीस्तम्भनपुरवरेऽभयदेवसूरिः॥ अर्थानामूहते स्मातिगहनरचनागूढताभाजि वृत्ते ऽशीतिं युक्तां चतुर्भिश्चतुरतरमतिर्यः सुविद्यानिधानम् । द्रोणाचार्यप्रधानैः स्तुत इति मुदितैः पत्तने सङ्घमुख्यैनूनं धात्रा धरित्र्यां प्रवचनतिलकः कौतुकान्निर्ममेऽसौ ॥ ३ ॥ तथा च तदुक्तिः'आचार्याः प्रतिसद्म सन्ति महिमा येषामपि प्राकृतै तुं नाध्यवसीयते सुचरितैर्येषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः साम्प्रतं यो धत्तेऽभयदेवसरिसमतां सोऽस्माकमावेद्यताम् ॥ ४॥" तस्य ख्यातिं निशम्य श्रुतनिकषनिधेौतमस्येव दूरात् । पुर्याः श्रीआशि(सि)कायाः प्रवररजतकृत्त्वेन कच्चोलवर्षे । एवं विख्यातकीर्ति सितपद(ट)वृषभः प्रेषयत् स्वं विनेयं विद्यं शान्त-दान्तं निशमनविधयेऽथागमस्यास्य पार्श्वे ॥ ६.॥ १ श्रीमत्सूरिजिनेश्वरस्य सुमुनिव्रातप्रभोः साम्प्रतं शीघ्रं चारुमहाप्रबन्धकवितुर्वाक्यात् समारम्भि यत् । तनिष्ठामधुना ययौ गुण-नवादित्यप्रमाणे वरे वर्षे भाद्रपदे शि(सि)ते शुभतरे द्वादश्यहे पावने ॥१॥-पत्तनीया. सूची। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy