________________
१४
शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य ।
प्राप्य प्रसन्नोऽभयदेवसूरिं ततोऽग्रहीज्ज्ञानचरित्रचर्याम् ॥ ७॥ शुभगुरुपदसेवाऽवाप्तसिद्धान्तसारावगतिगलितचैत्यावासमिथ्यात्वभावः । गृहिगृहवसतिं स स्वीचकारातिशुद्धया सुविहितपदवीवद्गाढसंवेगरङ्गः॥८॥
तथाऽस्य संविग्नशिरोमणेरभून्मनः प्रसन्नं सकलेषु जन्तुषु ।
जिनानुकृत्या भुवनं विबोधयन् यथा न शश्राम महामनाः स्वयम् ॥९॥ धर्मोपदेशकुलकाङ्कितसारलेखैः श्राद्धेन बन्धुरधिया गणदेवनाम्ना । प्राबोधयत् सकलवाग्जडदेशलोकं सूर्योऽरुणेन कमलं किरणैरिव स्वैः ॥१०॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा
न्यत्यन्तं च गभीरभूरिसुपदान्युन्निद्रितार्याणि च । व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते मादृशे
नारोढुं तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गुना ॥ ११ ॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणे
भव्यप्राणिविबोधने रसिकतां वीक्ष्यामृतां शाश्वतीम् । आदेशाद् गुणविन्नवाङ्गविवृतिप्रस्तावकस्यादरात् प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रप्रभुः ॥ १२ ॥
द्वादशकुलकविवृतिप्रान्तेजयन्ति सन्देहलतासिधाराः श्रोत्रप्रमोदामृतवारिधाराः । सूरेगिरः श्रीजिनवल्लभस्य प्रहीणपुण्याङ्गिसुदुर्लभस्य ॥ १ ॥ आसन्नत्र मुनीश्वराः सुबहवश्चारित्रलक्ष्म्यास्पदं
स्तोकाः श्रीजिनवल्लभेन सदृशा निर्भीकवाग्विस्तराः । सङ्ग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते तुल्याः श्रीजितवाजिना विजयिनो वीराः कियन्तोऽभवन् ॥ २॥
-पत्तनीयभां० सूची । अनेनैव जिनपालगणिना वि. सं. १२९४ वर्षे विरचितायां चर्चरीविवृतौ जिनवल्लभसूरिमधिकृत्य यत् प्रोचे, तत् त्वत्र साक्षादेवेति न पुनरुद्भियते ।
वि. सं. १२९५ वर्षे जिनवल्लभीयपिण्डविशुद्धिदीपिकाकार उदयसिंहसूरिरिदमुदगिरत्--
१ विक्रमतो वर्षाणां पञ्चनवत्यधिकरविमितशतेषु । रचितेयं श्लोकैरिह सूत्रयुता त्र्यधिकसप्तशती ॥
-पि. वि. दीपिकाप्रान्ते ( पत्तनीयभा० सूची)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org