________________
-सङ्घट्टक
वि. सं. ११६४ वर्षेषु चानेन जिनवल्लभगणिना निजाष्टसप्ततिका - धर्मशिक्षाऽऽदि चित्रकूट - नरवर - नागपुर - मरुपुरादिषु स्वप्रतिष्ठितवीरविधिचैत्यादिषु प्रशस्तिरूपेणोत्कीर्ण कारितमासीदिति श्रूयते ।
वि. सं. ११४१ वर्षे दीक्षाभाकू, वि. सं. १९६९ वर्षे सूरिपदप्रतिष्ठितः, वि. सं. १२११ वर्षे च स्वर्गभाक् प्रस्तुतकाव्यत्रयीप्रणेता जिनदत्तसूरिरेतस्य जिनवलभाख्यनिजगुरोर्भूरिगुणस्तुतिरूपा चर्चरीं व्यरचयत्, यात्र समीक्ष्यते । यत्र जिनवल्लभसूरेरसाधारणविद्वत्त्वं तत्प्रकटितविधिपथस्य चाम्नायः प्राबोधि । तथा च स एव सूरिर्गणधर सार्धशतके स्वगुरुपरम्पराप्रदर्शनपूर्वमलङ्कारालङ्कृतां विस्तृतां गुरुपारतन्त्र्यस्तवे च संक्षिप्तां जिनवल्लभसूरिस्तुतिं समकार्षीत्, परिशिष्ट ( २ - ३ ) दर्शनेन तत् प्रकटं परिज्ञातं भविष्यति ।
वि. सं. ११७० वर्षे मुनिचन्द्रसूरिणा जिनवल्लभीयसार्धशतकस्य चूर्णिर्व्यरचि । वि.सं. ११७० वर्षे धारायां जिनदत्तसूरिशष्येण जिनरक्षितसाधुना, वि. सं. ११७१ वर्षे पत्तने जयसिंहराज्ये जिनदत्तसूरिशिष्यब्रह्मचन्द्रगणिना च लिखितायां कवि पल्हप्रणीतायां पट्टावल्यां जिनवल्लभस्य नाम परिपठ्यते ( परि. ४ ) । वि. सं. ११७१ वर्षे धनेश्वरसूरिसमर्थितयां जिनवल्लभ गणिप्रणीतस्य सूक्ष्मार्थविचारसारापरनामसार्धशतकस्य वृत्तार्वेपि जिनवल्लभस्य सूरिविशेषणमभयदेवसूरिशिष्यत्वं च व्याहारि ।
जिनवल्लभसूरिरचितस्यागमिकवस्तुविचारसारापरनामषडशीतिकस्य वृत्तिर्जयसिंहदेवराज्ये वि. सं. ११७२ वर्षे बृहद्गच्छीयजिनदेवोपाध्यायशिष्य हरिभद्रसूरिणा समर्थिता भावनगरस्थयाSSत्मानन्दसभया प्राचीनकर्मग्रन्थेषु प्रकाशिता समुपलभ्यते ।
१ शशि - मुनि - पशुपतिसङ्ख्ये वर्षे विक्रमनृपादतिक्रान्ते । चैत्रे सितसप्तम्यां समर्थितेयं गुरौ वारे ॥
- सा. श. वृत्तौ धनेश्वराचार्यः ।
२ कर्मप्रकृति - पञ्चसंग्रहा दिशास्त्रादेवोद्धृत्य कर्मगत कतिचित्पदार्थानां प्रसङ्गतस्तदितरेषां च केषांचित् प्ररूपणाय सूक्ष्म पदार्थनिष्कनिष्कषणकष पट्टकसं निभप्रतिभः श्रीजिनवल्लभाख्यः सूरिः सार्धशतकाख्यं प्रकरणं चिकीर्षुः + +
- सा. श. वृ. प्रारम्भे धनेश्वराचार्यः । ' जिणवल्लद्गणि'त्ति जिनवल्लभगणिनामकेन मतिमता सकलार्थसंग्राहिस्थानाङ्गाद्यङ्गोपाङ्गपञ्चाशका दिशास्त्रवृत्तिविधानावाप्तावदातकीर्तिसुधाधवलितधरामण्डलानां शिष्येण लिखितं कर्मप्रकृत्यादिगम्भीरशास्त्रेभ्यः समुद्धृत्य दृब्धं जिनवल्लभगणिलिखितम् । - सा.श. ( भावनगरस्थया जैनधर्म- प्रसारकसभया प्रकाशित ) - . प्रान्ते
श्रीमदभयदेवसूरीणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org