Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
सप्ततिकादौ च जिनेश्वरसूरिमभयदेवाचार्य च सत्स्तुतिपात्रं सद्गुरुं च समसूचयत् । प्रायेणायं निजां कृति · जिनवल्लभ' इति · जिनवल्लभगणि' इति च नाम्नाऽभ्यजिज्ञपत् ।। १ कः स्यादम्भसि (म्बुधौ)वारिवायसवति क्व द्वीपिनं हन्त्ययं
लोके प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः ? । ब्रूते पालयिताऽत्र दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे__—हि श्रीजिनवल्लभस्तुतिपदं की ग्विधाः के सताम् ? ॥
-जिनवल्लभसूरिविरचिते प्रश्नशते (श्लो. १५९) अव०-मद्गुरवो जिनेश्वरसूरयः । मद्गुर्जलबायसस्तस्य वः शब्दः । अजिने चर्मणि 'निमित्तात् कर्मसंयोगे सप्तमी' इत्यनेन ‘अजिने' इत्यत्र सप्तमी । हे अश्व ! 'रस लस शब्दे' इति वचनात् । हे ऊ रक्षक 'अवतीति क्विम् , अव्यचीत्यादिना ऊटि रूपम् ' । रयो वेगः । मम जिनवल्लभस्य गुरवो मद्गुरवः । एवंविधाः सन्तः के जिनेश्वरसूरयः सतां शिष्टानां स्तुतिपदमित्यर्थः॥ पाके धातुरवाचि कः ? क्व भवतो भीरोमनःप्रीतये ?
सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? । पाणौ किं मुरजिद् बिभर्ति ? भुवि तं ध्यायन्ति के वा सदा ?
___ के वा स(म)द्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः ? ॥ (श्लो० १५०) अव०---श्रीमदभयदेवाचार्याः । श्री पाके' इति वचनात श्रीधातुः । ममाभयं ददातीति मदभयदस्तस्मिन् यो मदभयं ददातीति तत्र मम मनः प्रीतियुक्तं भवतीत्यभिप्रायः । वाचा वचनेन । अरा विद्यन्ते यत्र तदरि चक्रं । ए विष्णौ भक्तिर्येषां ते आः वैष्णवाः तत्र भक्तिरित्यण् ।
--स्तोत्ररत्नाकरे (म्हेसाणाश्रीयशोविजयजैनसंस्कृतपाठशालया प्रकाशित भा. २) लोकार्यकूर्चपुरगच्छमहाधनोत्थमुक्ताफलोज्ज्वलजिनेश्वरसूरिशिष्यः। प्राप्तः प्रथां भुवि गणिजिनवल्लभोऽत्र तस्योपसम्पदमत्राप्य ततः श्रुतं च ॥
-अष्टसप्ततिकायां ( चित्रकूटीयमहावीरप्रासादशिलालेखे ) २ सूक्ष्मार्थविचारापरनामसार्धशतकप्रान्ते
जिणवल्लहगणिलिहियं सुहुमत्थवियारलवमिणं सुअणा ।
निसुणतु मुणंतु सयं परे वि बोहिंतु सोहंतु ॥ षडशीत्यपरनामागमिकवस्तुविचारसारप्रान्ते
जिणवल्लहोवणीयं जिणवयणामयसमुद्दबिंदुमिमं ।
हियकंखिणो बुहजणा निसुणंतु गुणंतु जाणंतु ॥ पिण्डविशुद्धिप्रान्ते
इच्चेयं जिणवल्लहेण गणिणा पिंडनिज्जुत्तिओ किंची। पिंडविहाणजाणणकए भव्वाण सव्वाण वि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 248