Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
न
भूमिका
भाषाभेदकोविदाः सुपरिशीलितवाङ्मया मनीषिणः ! भाषाभेदाभिज्ञेषु न नामाभिनवं निवेदनीयमपभ्रंशभाषाविषये वा तत्काव्यविषये, तथापि याथातथ्येन तत्स्वरूपानभिज्ञेषु तज्जिज्ञासुषु स्वल्पज्ञेषु सूपयोगि समुपकारकमवसरोचितमत्यावश्यकं प्रासङ्गिकं चात्र तन्निवेदनम् ; यद्भाषामयी प्रस्तुता काव्यत्रयी भारतीभक्तैरद्य सकुतूहलं दृष्टिपथपान्थीक्रियते ।
किञ्च ततोऽपि पूर्वमेतस्याः काव्यत्रय्याः कवयितुः परिचय आवश्यक इति प्रज्ञापनीये तच्चरिते तत्पूज्यस्य गुरुवर्यजिनवल्लभस्येतिवृत्तं प्रभूतग्रन्थपर्यालोचनतः प्रोद्धृत्य प्राक् प्रदर्श्यते, यद्गुणस्तुतिरूपं चर्चरीसंज्ञितं सप्तचत्वारिंशद्वृत्तसमन्वितं प्रस्तुतकविजिनदत्तसूरिप्रणीतं काव्यमस्यां काव्यत्रय्यां प्रागेव प्रेक्षावद्भिः प्रेक्षकैः प्रेक्षणक्षणीक्रियते ।
जिनवल्लभसूरिः। जेसलमेरुजैनभाण्डागारीय-ग्रन्थसूच्यामप्रसिद्धग्रन्थग्रन्थकृत्परिचये (पृ. ४०-४१) संक्षेपतोऽस्माभिः परिचायितोऽयं सूरिविशेषतोऽत्राभिज्ञाप्यते । विक्रमीयद्वादशशताब्द्यां सूरेरस्य सुप्रतिष्ठिता सत्ताऽसाधारणं पाण्डित्यं चारित्रपात्रत्वं च समधिगतप्रमाणैः सुतरां प्रतीयते । वि. सं. ११२५ वर्षे जिनचन्द्रसूरिविरचिता संवेगरङ्गशालाऽनेन गणिना संशोधिताऽऽसीदिति वि. सं. १२०७ वर्षीयताडपत्रीयपुस्तक-( जेसलमेरभां० सूची पृ. २१, अप्र० पृ. ३८) प्रान्तोल्लेखादवगम्यते ।
वि. सं. ११३८ वर्षे प्राग्वाटकुलीननेमिकुमारलिखितं कोट्याचार्यकृताया विशेषावश्यकटीकायास्ताडपत्रात्मकमेतदीयं प्राचीनं जीर्णमादर्शपुस्तकमद्याप्युपलभ्यते; यत्र जिनेश्वरसूरिशिष्यत्वमस्य निरंदेशि । सूरिरयं स्वयमपि स्वीये प्रश्नोत्तरषष्टिशतककाव्येऽष्ट
१ 'लिखितं पुस्तकं चेदं नेमिकुमारसंज्ञिना प्राग्वाटकुलजातेन शुद्धाक्षरविलेखिना ॥ सं. ११३८ पौषवदि ७ ॥ कोट्याचार्यकृता टीका समाप्तेति ॥ ६ ॥ ग्रंथाग्रमस्यां त्रयोदश सहस्राणि सप्तशताधिकानि १३७०० । पुस्तकं चेदं विश्रुतश्रीजिनेश्वरसरिशिष्यस्य जिनवल्लभगणेरिति' ॥-पुण्यपत्तन( पूना )स्थ भांडारकरइन्स्टीट्यूट' संज्ञकसंस्थायां प्रतिः (प्रतिकृतिप्राप्तिस्तु सूर्यपुरीयजैनानन्दपुस्तकालयतः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 248