Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ अम्बडचरित्रम् सप्तम आदेश: // 103 // शोकं निवर्तयामास गुणांस्तस्याः स्मरन् पिता / अन्यदाऽगात्सपत्नीको वने क्रीडनहेतवे // 48 // तस्यैवं रममाणस्य गुरोर्बभूव दर्शनम् / कुमारो गणभृत्केशी यः श्रीपार्श्वजिनान्वयः // 4 // | किञ्चिन्नत्वा पिता तस्य पुरतः समुपाविशत् / गुरुर्धर्मोपदेशं च ददौ तस्मै जिनोदितम् // 15 // यतः-जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु / साध्वी लक्ष्मीश्चरणकमलोपासनं सद्गुरूणां, शुद्धं शीलं मतिरमलता प्राप्यते प्राज्यपुण्यैः // 51 // अम्बडः प्राह तत्सत्यं भवद्भिर्यच भाषितम् / पून नमतं किञ्च न परं सांख्यदर्शनात् // 52 // तद्यथा-सांख्या निरीश्वराः केचित् , केचिदीश्वरदेवताः। सर्वेषामपि तेषां स्यात् , तत्त्वानां पञ्चविंशतिः // 53 // तद्यथा-साङ्ख्या देवः शिवः कैश्चित् मतो नारायणः परैः। उभयोः सर्वमप्यन्य-तत्त्वप्रभृतिकं समम् // 54 // यदेव जायते भेदः प्रकृतेः पुरुषस्य च / मुक्तिरुक्ता तदा सांख्यैः ख्यातिः सैव च भण्यते // 55 // // 103 //

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116