Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 7
________________ युक्ताः / युक्ततस्खेतदुत्पश्यामः / अन्यथाकलने तु- . 'य इमं शृणुयायोकं नाट्यवेदं वर्षभुका / कुर्यात्प्रयोग यश्चैनं तथाधीयीत वा नरः / / या.गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् / या गतिर्दावशीलानां तां गति प्रामुयात् तु सः॥' इति शास्त्रान्ते पठ्यमानं कथमिव संगच्छेत ? ........ अस्मिंश्च चतुर्वेदामसंभवे माध्यमाने श्रन्य-दृश्यरूपस्य कविव्यापारस्य निरूपणेऽपि विशेषतो दृश्यकाव्यमेव सपरिकरं निरूपितम् / तथा च प्रातिस्विकतया दृश्यकाव्यमुद्दिश्य तदुक्ति: 'जग्राह पाठ्यं ऋग्वेदात्सामभ्यो गीतमेव च। . . . यजुर्वेदादभिनयान रसानाथर्वणादपि // ' (अ. 1 श्लो. 15) असमर्थः-त्रैश्वर्यप्रधानाद् ऋग्वेदादभिनयप्रधाने पाव्ये प्रथमं त्रिस्तरासानं, तदुत्तरं सामवेदात्प्रयोगप्राणभूतं गीतं संगृहीतम् , ततश्चाध्वर्गवकर्मप्रधानाद् यजुर्वेदादाभिनयान् , आथर्वणाच रसान् जग्राह / अत्र च 'स्वाति-नारदसंयुक्तो वेदवेदाङ्गकारणम् / उपस्थितोऽहं लोकेशं प्रयोगार्थ कृताञ्जलिः // ' (अ. 1 श्लो. 52) 'यथोकं मुनिभिः पूर्व स्वाति-नारद-पुष्करैः / ' (अ. 34 श्लो. 2) इत्येवं परिगणिता अन्येऽपि नाट्याचार्या मामतः श्रूयन्ते / त एते भरतस्य सहयोगिनो भवेयुरिति संभाव्यते / किंच भरतान्तेवासिभिः कोहलादिभिरपि भरतोक्तीः परिष्कृता इत्यायभिनवभारतीतो विज्ञायते / विज्ञायते च नान्यदेवप्रणीतं कश्चिद् भरतभाष्यमपि, यदभिनवगुसैः पञ्चमाध्याये प्रमाणत्वेन न्यस्तम् (अभिनवभारती पृ. 255) / एवमस्य शास्त्रस लोकप्रियत्वं भूयसीभिष्टीकाटिप्पणीभिर्निःसंशयं सिध्यति / .. अनायं निष्कर्षः-नाव्यशास्त्रस्य त्रेतोत्पत्तेनिःसंदिग्भतया तदेव तावत्पूर्व प्रभवतीति निर्विवादम् / एवमेतदाधारेणैव काव्यालङ्कारविषया भामहाधुतरग्रन्थेषु निबद्धा इत्यपि सुस्पष्टम् / एतदुत्तरं सु भंगवतो वेदव्यासस्याग्निपुराणात् साहित्यविषया गृहीता इति भामहादिप्राचीनप्रवन्धसंवाददर्शवेन

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 292