Book Title: Alankarsarvasva Author(s): Girijaprasad Dvivedi Publisher: Pandurang JavajiPage 14
________________ 'निदानं जगतां वन्दे वस्तुनी वाच्यवाचके / ययोः साहित्यवैचित्र्यात्सतां रसविभूतयः॥ . एवमेषा रस-दोष-गुण-रीत्यलङ्कारादिसाहितीशासनोपयोगिविषयान्विण्वती प्रकरणाष्टकमयी तुरीयां तात्पर्याख्यां वृत्तिमाधाय रसास्वादनप्रवणा च / अत्र ग्रन्थकृमृत्यलकारस्वरूपप्रस्तावे यथारुचितमौद्भटीयं काव्यालङ्कारसंग्रह, गुणविवेचने च वामनीयं तृतीयमधिकरणं विशेषतो गृहीतवान् / एवं काव्यादर्शीयाः प्रथमपरिच्छेदोक्तयोऽप्युदाहृताः / अत्रत्यो मूलग्रन्थो बहुत्र प्रक्षेपविपर्यस्तः प्रतीयते / तत्र 'केचिदन्तर्भवन्त्येषु' इति 'शक्तिनिपुणता' इति चोप. लभ्यमाना काव्यप्रकाशकारिकाद्वयी तदुपपत्तौ मानम् / अस्याः के. श्रीसाम्बशिवशास्त्रिमहाशयानुमितं मङ्खकर्तृकत्वं तु न समीचीनमित्यत्रत्यलेखपर्यालोचनया, चतुरस्रमेव / यच्च भूमिकायां शास्त्रिभिः-'इह च साहित्यमीमांसायां बहुत्र-आचार्यपदेन पूजया गृह्यमाणोऽयं प्रामाणिकः स एव गुरुः श्री रुय्यकः संभवी।' इत्युक्तं तत्सर्वथा भ्रान्तिविलसितम् / नपत्राचार्यपदेन कश्चिद् व्यक्तिविशेषो विवक्षितः। अपि तु भट्टोटवामन-प्रतीहारेन्दुराजादीन् गौरवानुरूपमाचार्यपदेन विशिनष्टीति मूलग्रन्थ एव विस्पष्टम् / एवमेतत्कर्तुर्जीवितसमयाकलने मम्मटस्यैकादशशतकस्थितिरपि शास्त्रिसंमता प्रमाणदुर्बलस्वान्नाभिमता भवितुमर्हतीति रुय्यक-मङ्खयोरस्मदुपदर्शितरीत्या समयोऽवसेयः / एवं व्यक्तिविवेकव्याख्यानमपि रुय्यककृतमेवेति जयरथोत्या ज्ञायते / (विमर्शिनी पृ. 16) / ..अद्यावधि ससूत्रस्थालङ्कारसर्वस्वस्य कर्तृकतया रुय्यक एव सर्वसंमत भासीत्। परं काव्यमालायामस्य गुम्फनोत्तरमनन्तशयनसंस्कृतग्रन्थावलौ मुद्रितस्य भूमिकायां स्वर्यातमहामहोपाध्याय श्रीगणपतिशास्त्रिमहोदयः सूत्रकारो रुय्यको वृत्तिकारश्च तच्छिष्यो मङ्ख इति निश्चिन्वान उभयोर्भिन्नकर्तृकत्वममन्यत / तच्चैवम्-अनेन केरलाक्षरलिखितं चतुःशतवर्षवृद्धदेश्यं पुस्तकत्रयं लब्धम् / तत्र प्रारम्भे 'गुर्वलङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते' इति गुरुशब्दोपादानात्तदनुमेयो वृत्तिकारस्य गुरुः सूत्रकार इति निर्धारितम् / तथा तत्रैव समाप्तौ-'इति मङ्खको वितेने काश्मीरक्षितिपसांधिविग्रहिकः / सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् // ' इत्यनेन ग्रन्थकृदात्मनः कर्तृत्वंPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 292