________________ 'निदानं जगतां वन्दे वस्तुनी वाच्यवाचके / ययोः साहित्यवैचित्र्यात्सतां रसविभूतयः॥ . एवमेषा रस-दोष-गुण-रीत्यलङ्कारादिसाहितीशासनोपयोगिविषयान्विण्वती प्रकरणाष्टकमयी तुरीयां तात्पर्याख्यां वृत्तिमाधाय रसास्वादनप्रवणा च / अत्र ग्रन्थकृमृत्यलकारस्वरूपप्रस्तावे यथारुचितमौद्भटीयं काव्यालङ्कारसंग्रह, गुणविवेचने च वामनीयं तृतीयमधिकरणं विशेषतो गृहीतवान् / एवं काव्यादर्शीयाः प्रथमपरिच्छेदोक्तयोऽप्युदाहृताः / अत्रत्यो मूलग्रन्थो बहुत्र प्रक्षेपविपर्यस्तः प्रतीयते / तत्र 'केचिदन्तर्भवन्त्येषु' इति 'शक्तिनिपुणता' इति चोप. लभ्यमाना काव्यप्रकाशकारिकाद्वयी तदुपपत्तौ मानम् / अस्याः के. श्रीसाम्बशिवशास्त्रिमहाशयानुमितं मङ्खकर्तृकत्वं तु न समीचीनमित्यत्रत्यलेखपर्यालोचनया, चतुरस्रमेव / यच्च भूमिकायां शास्त्रिभिः-'इह च साहित्यमीमांसायां बहुत्र-आचार्यपदेन पूजया गृह्यमाणोऽयं प्रामाणिकः स एव गुरुः श्री रुय्यकः संभवी।' इत्युक्तं तत्सर्वथा भ्रान्तिविलसितम् / नपत्राचार्यपदेन कश्चिद् व्यक्तिविशेषो विवक्षितः। अपि तु भट्टोटवामन-प्रतीहारेन्दुराजादीन् गौरवानुरूपमाचार्यपदेन विशिनष्टीति मूलग्रन्थ एव विस्पष्टम् / एवमेतत्कर्तुर्जीवितसमयाकलने मम्मटस्यैकादशशतकस्थितिरपि शास्त्रिसंमता प्रमाणदुर्बलस्वान्नाभिमता भवितुमर्हतीति रुय्यक-मङ्खयोरस्मदुपदर्शितरीत्या समयोऽवसेयः / एवं व्यक्तिविवेकव्याख्यानमपि रुय्यककृतमेवेति जयरथोत्या ज्ञायते / (विमर्शिनी पृ. 16) / ..अद्यावधि ससूत्रस्थालङ्कारसर्वस्वस्य कर्तृकतया रुय्यक एव सर्वसंमत भासीत्। परं काव्यमालायामस्य गुम्फनोत्तरमनन्तशयनसंस्कृतग्रन्थावलौ मुद्रितस्य भूमिकायां स्वर्यातमहामहोपाध्याय श्रीगणपतिशास्त्रिमहोदयः सूत्रकारो रुय्यको वृत्तिकारश्च तच्छिष्यो मङ्ख इति निश्चिन्वान उभयोर्भिन्नकर्तृकत्वममन्यत / तच्चैवम्-अनेन केरलाक्षरलिखितं चतुःशतवर्षवृद्धदेश्यं पुस्तकत्रयं लब्धम् / तत्र प्रारम्भे 'गुर्वलङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते' इति गुरुशब्दोपादानात्तदनुमेयो वृत्तिकारस्य गुरुः सूत्रकार इति निर्धारितम् / तथा तत्रैव समाप्तौ-'इति मङ्खको वितेने काश्मीरक्षितिपसांधिविग्रहिकः / सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् // ' इत्यनेन ग्रन्थकृदात्मनः कर्तृत्वं