Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
View full book text
________________ वदन् नामापि निर्दिष्टवान् / तद्देशीयस समुद्रबन्धस्य च कृतं व्याख्यानमपि कश्चिल्लब्धमेतेन सह संश्लेषितमाते। अयमपि तथा व्याचक्षाणो मङ्खमेव वृत्तिकर्तृकत्वेन निर्दिशतिस / शास्त्रिणा चैकान्ततोऽत्र समुद्रबन्धस्यैव प्रामाण्यं स्वीकृतम् / एतट्टीकने च कथमपं प्रावर्तदित्यादिवृत्तमुक्तान्थावलौ प्रकाशितस्य प्रद्युम्नाभ्युदयस्य भूमिकायामुपन्यसता मङ्खोपर्येव सर्वस्वस्थ कर्तृवभारः प्रक्षिप्तः। तथा च तदुपयुक्तांशोऽप्यत्रानूद्यते-चन्द्रवंशशाखाभूते यदुवंशे साहित्यसङ्गीतकलाकुशलो जयसिंहसुतः संग्रामधीरापरनामकः कश्चित् रविवर्मा कोलम्बाधिपतिरासीत् / अस्याश्रितया पण्डितपरिषदा सर्वस्वख दुरुहतां दृष्ट्वा तद्व्याख्यानायायं प्रार्थितोऽभूत् / ततश्चानेन ग्रन्थप्रमेयं स्वयंविवृण्वताऽपि लेखकर्मणि समुद्रबन्धो नियुक्त इति स्वीयटीकाप्रारम्भे ........................................ . अवधूत्यै यदुपतिना विवृतस्य गरीयसस्तदर्थस्य / कश्चिद् ब्यधितविपश्चिच्छब्दनिबन्धं समुद्रबन्धाख्यः // ' .इति व्यलिखत् / काव्यमालादर्शभूते 'क' 'ख' संज्ञया व्यवहृते तु 'निजालकारसूत्राणां वृत्त्या तात्पर्यमुच्यते' इति पाठोपलब्ध्या बहुविचार्य मयापि स एवान संस्करणे स्वीकृतः / भवतु नाम / शास्त्रिभिर्यदुक्तं तदखिलमुपपत्तिमदथापि न स्वीकारार्हम् / केरलादर्शेषु तथा पाठेऽपि गुरुशब्दस्यालङ्कारशब्द. सान्निध्यात् स्वारस्याञ्च विशेषणतयैव योगो युक्त आसीत् / सच अन्यथोत्प्रे. क्षणयैव विरोधप्रतिक्षेपकोऽभूदिति द्रष्टव्यम् / रुय्यकस्य च सूत्रप्रणयनं सर्व. संमतं, मङ्खश्च तच्छिष्य इत्यपि तदुत्त्यैव सिद्धम् / तथा च श्रीकण्ठचरिते 'व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते / आकर्षदिव वाग्देव्या धौतक्षौमपटाञ्चलम् // अर्पयन कमपि स्पन्दं धान्नः सारस्वतस्य भूः। य एव सर्वशास्त्राणां साकारमिव जीवितम् // ... विवृतीर्यों लिखत्यात्तलेखन्येकाङ्गुलीतलः / ग्रन्थेभ्योऽर्थस्य विश्रान्त्यै सुत्रिकामर्पयन्निव // * : 1 अयं वधिमण्डलमहाराजस्य पूर्वजः, प्रद्युम्नाभ्युदयस्य च प्रणेता।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 292