Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 13
________________ चितः / एवं ध्वनि संस्थाप्य तद्भेदानीषदुन्मील्य चित्रकाव्यभेदो दर्शितः। पुनश्च पुनरुक्तवदाभासादीनां पञ्चानां कक्ष्याविभागार्थ पौनरुत्यविधाः संख्याताः। / कतिपयेष्वलङ्कारेष्वालङ्कारिकाणां शब्दार्थभेदमूलको मतभेद इति तत्र तत्र स्फुटमेव तथापि सर्वस्वकर्तुर्विषयनिरूपणशेलीपरिचयार्थ दिमात्रमुच्यतेअयं बहुत्रालङ्कारविचारेषु युक्तायुक्तं परीक्ष्यापि प्राचामनुरोधेनैव सिद्धान्तयति / यथा पुनरुक्तवदाभासंशब्दार्थालङ्कारत्वेन सत्यापितमपि शब्दालकारेवेव परिणामयति / बहुत्र पुना खपितुरेव मतं स्वीचकारेति च जयरथो वदति (दृश्यतां विमर्शिनी पृ. 158) / -- अस्य प्रणेता उद्भटविवेकाख्यग्रन्थकर्तृराजानकतिलकसूनू रुचकापरनामा रुय्यकाचार्यः ख्रिस्ताब्दस्य द्वादशशतकपूर्वभाग आसीत् / एतन्निर्मिता ग्रन्थास्त्वेते-(१) अलङ्कारसर्वस्वम् (2) अलङ्कारानुसारिणी (3) साहित्यमीमांसा (4) नाटकमीमांसा (5) हर्षचरितवार्तिकम् (6) व्यक्तिविवेकव्याख्यानम् (7) सहृदयलीला (8) श्रीकण्ठस्तवश्चेति / एषु अलङ्कारानुसारिणी काश्मीरकजल्हणकवेः सोमपालविलासकाव्यस्य टीका / अस्थ निर्देशो विमर्शिन्यां जयरथेन रूपकालङ्कारे उत्प्रेक्षायां च कृतः (दृश्यतां पृ. 44, 71) साहित्यमीमांसाप्येतत्कृतैवेति स्वयमत्रोत्प्रेक्षाविचारे निर्दिशति (पृ. 77) जयरथश्च विभावनानिरूपणे तामिमामसार्षीत् (पृ. 160) व्यक्तिविवेकव्याख्यानेऽपीयं ग्रन्थकृता मर्यते (त्रिवेन्द्रम-संस्करणं पृ. 32) एवमुक्तस्थलेषु नाटकमीमांसा-हर्षचरितवार्तिकमिति द्वितयं चापि / अनयोरुपलब्धिर्नाद्यापि श्रूयते / श्रीकण्ठस्तवोऽपि नोपलभ्यते / सहृदयलीला तु काव्यमालायां गुम्फितैव। ................. * अथ साहित्यमीमांसायाः स्वरूपज्ञल्यै किञ्चिदुच्यते-इयं भामहदण्डि-वामनोगटप्रभृति-प्राचोऽलङ्कारप्रबन्धोपजीव्या प्रायेण तन्मयानुवर्तिनी चास्ते / किंच तत्तदलङ्कारवचनानि कचित्साक्षादुद्धरन्ती, कचिच्च तात्पर्यमनुरुध्य प्रसरन्ती तदुक्तिभिश्च स्वोकिं प्रमाणयन्ती दृश्यते / तदेवंभङ्गया प्रमेयान् संचिन्वती बाढं भावुकानुपरञ्जयति / अयमन्त्र मङ्गलोपहारः 1 अनन्तशयनग्रन्थावलौ मुद्रिता /

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 292