Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 5
________________ प्रस्तावना. अथेदं साहित्यापरपर्यायमलकारशास्त्रं शब्दार्थनिबन्धनस्य कविकर्मणः शासकमिति सुप्रतीतं तद्विदाम् / अत एवास्य शब्दानुशासनवत् काव्यानुशासनमिति नामान्तरव्यवहारोऽपि सार्थकतामापद्यते / एतच्च काव्यानुशासनं प्राचीनैरलकारतन्त्रसूत्रधारै महोगटप्रभृतिभिरलङ्कारशास्त्रत्वेन तथाचीनैरष्टादशविद्यानां सहभावभावानुरूपेण साहित्यशास्त्रत्वेन च व्यवहृतम् / इत्थमयमलकारशब्दो भाव-करणव्युत्पत्तिमहिना साहित्यशास्त्रे, उपमाद्यलकारेषु च व्यवहारपदवीमारूढ इति स्थेयानां विमर्शः / 'प्रधाने हि व्यपदेशा भवन्तीति न्यायनयेन अलंक्रियतेऽनेन इति करणव्युत्पत्त्यापि शास्त्रवाचकता निर्बाधैव / - अथ प्रकृतेऽलङ्कारशास्त्रस्य प्रादुर्भावकाले विचार्यमाणे यद्यपि मौलिकं गवेषणं दुःशकमेव प्रतीयते तथापि सुदूरमवधारणेन तत्रभवतोभरतमुने व्यशास्त्रमेव प्राथम्येन विवेकपथमवतरति / यत एतदुत्तरमेव यावदुपलभ्यमाना प्राञ्चः साहित्यसंदर्भा लब्धजन्मान इति पुरावृत्तपरीक्षणेन निष्प्रत्यूहं प्रतिष्ठते। भवतु नाम / इदानीं किमिदं नाव्यशास्त्रं, तच्च कथं प्रवृत्तम् ? को वास्य प्रवतक इति संक्षिप्य विविच्यते, येनात्रोपक्रान्तोऽलङ्कारशास्त्रस्याविर्भावसमयोंsशतः सुखसाध्यः स्यात् / __नाव्यं नाम नटवृत्तम्-तस्य च शासनोपायपरं शास्त्रमेव नाट्यशास्त्रमित्युच्यते / यत्र खल्वधिगतविशेषो नटः स्वकर्मणि पटूभवति / नाट्यञ्च नटधर्मत्वात्तैः स्वतोऽनुष्ठेयं वस्तु, न पुनस्तेषां कश्चिदुपदेष्टा प्रेरको वा, न वा तानुहिश्य वैदिको लौकिको वा विधिर्विनियुज्यते / एवं तर्हि नाट्यशासनोपदेशे नटस्य को लाभ इति चेत्, केवलं प्रत्युपकारमात्रमनेन नियंत इति सहदयाः। नाट्यस्योत्पत्तिचिन्तायां तु प्रथमतो नाट्यवेद एवाङ्कुरित इत्यवगम्यते। स च लोकहितैषणया स्वयंभुवा भगवते भरतायोपदिष्टः / तेन च महेन्द्रविजयोस्सवे स सर्वोऽपि यथायथं प्रयोगभूमिमवतारितः। अथ च प्रश्नप्रतिवचनभङ्गया तदाधारण 'नाट्यवेदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते / ... कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्स कीदृशः॥' इत्युक्तरूपं प्रश्नपञ्चकं प्रधानीकृत्य कविप्रयोक्त्रोरुपदेशार्थ नाव्यशास्त्रं निर्मि

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 292