Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji
________________ सुदृढं प्रतिपत्तुं शक्यमिति किं बहुना / यथा चैतदुपपद्यते तथा साहित्यदर्प णभूमिकायामसत्तातपादैर्विशदीकृत्य निरूपितमेवेति जिज्ञासुभिस्तत एवावगन्तव्यम् / इयता नाव्यवृत्तं, तत्कालकलनाञ्च ईषदुन्मील्य, 'न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। नासौ योगो न तत्कर्म नाट्येऽस्मिन् यस दृश्यते // ' .. इति भरतोक्ति तथा-. . 'न स शब्दो न तद् वाच्यं न स न्यायो न सा कला। * जायते यन्न काव्याङ्गमहोभारो महान् कवेः॥' इति किंचित्परिवर्तिताकारां तत्सहधर्मिणी भामहोक्तिं चोपक्षिप्यातो निवर्तामहे। अथ च श्रव्यदृश्यरूपतया द्विधाभावमापने चमत्कारसारे काव्यशरीरे उत्कर्षहेतवो गुणरीत्यलङ्कतयो मनाक् विविच्यन्ते यद् व्यतिरेकेण सहृदयाः शब्दार्थयुगलस्य कविकर्मणो रसास्वादसुखाय नालंकर्मीणाः / तत्र तावद्गुणो नाम रीत्यलकाराभ्यामन्तरङ्गो रसवृत्तिनैसर्गिकः कश्चन धर्मः। तस्य च परमार्थतो रसैकनिष्ठतायामपि तदभिव्यञ्जकशब्दार्थनिष्ठतेति सर्ववादिनामभ्युपगमः। अत एव च 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता।' इत्यभियुक्तोक्तिः / इतरथा नीयमाने तु 'मधुरः शब्दो मधुरोऽर्थ' इति लोकयात्रा विपर्यस्ता भवेत्।यच्च वामनः-माधुर्यादयो गुणाः वर्णादिधर्माण इत्यशिश्रियत् , तदुपचारकोटिप्रवेशनेन नासमञ्जसम् / तदित्थं गुणरहिते कविकर्मणि काव्यपदस्य भक्त्या प्रयोगः / नाव्यशास्त्रे 'श्लेषः प्रसादः समता समाधि - माधुर्यमोजः पदसौकुमार्यम् / अर्थस्य च व्यक्तिरुदारता च - कान्तिश्च काव्यख गुणा दशैते // ' (अ. 16 श्लो. 96) इत्येतावन्तो गुणा लक्षिताः / एत एव च दण्डिनः काव्यादर्श कामनस्य काव्यालङ्कारसूत्रेषु च लक्ष्यन्ते / भामहप्रबन्धे तु माधुर्योजःप्रसादातिरिका गुणान्तरसंक्रान्ति धिगम्यते / तन्मन्ये, अत एव शिक्षितैर्मम्मटादिभिर्भरताद् वामनान्ताकलिताः सर्वेऽपि गुणास्त्रिज्वेव क्रोडीकृता भवेयुः। भोजविद्यानाः
Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 292