Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१०८
समवायाङ्गसूत्रम्-८२/१६१ प्रविश्यचारंचरति, तद्यथा-निष्कामंश्चजम्बूद्वीपात् प्रविशंश्चजम्बूद्वीपएवेति, अयमत्रभावार्थःकिल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये सकृदेव सङ्क्रमति शेषाणि तु द्वौ वाराविति, इह च द्वयशीतिविवक्षयैवेदं द्वयशीतिस्थानकेऽधीतमिति भावनीयं, यद्यपि जम्बूद्वीपेपञ्चषष्टिरेवमण्डलानांभवति तथापिजम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति ।
'समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठया आरभ्य द्यशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमेवर्तमानेअश्वयुजः कृष्णत्रयोदशश्यामित्यर्थः, गर्भात्-गर्भाशयाद्देवानंदाब्राह्मणीकुक्षित इत्यर्थः गर्भ-त्रिशलाभिधानक्षत्रियाकुक्षिं संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदंचसूत्रं यशीतिरात्रिन्दिवान्यधिकृत्य द्यशीतिस्थानकेऽधीयते त्र्यशीतितमंरात्रिन्दिवमाश्रित्य तुत्र्यशीतितमस्थानके इति । महाहिमवंतस्से'त्यादि महाहिमवतोद्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य उवरिल्लाओ'त्ति उपरिमाच्चरमान्तात्सौगन्धिककाण्डस्याधस्तनश्चरमान्तो यशीतिर्योजनशतानि, कथं? रलप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डंपङ्ककाण्डमब्बहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधं, तद्यथा-रत्नकाण्डं १ वज्रकाण्डं २ एवं वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ ६पुलक७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्फटिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येक सहस्रप्रमाणानि ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिशतानि द्वे च शते महाहिमवदुच्छ्रय इत्येवं व्यशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं, महाहिमवत्समानोच्छ्रयत्वात्तस्येति
समवायः-८२ समाप्तः
(समवायः-८३) मू. (१६२) समणे भगवंमहावीरे बासीइराइंदिएहिं वीइकतेहिं तेयासीइमे राइदिए वट्टमाणे गब्भाओ गब्भं साहरिए, सीयलस्सणं अरहओ तेसीई गणा तेसीई गणहरा होत्था।
थेरे णं मंडियपुत्ते तेसीइं वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे ।
उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमझे वसित्ता मुंडे भवित्ताणं जाव पव्वइए।
भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी।
वृ. अथ त्र्यशीतितमस्थानके किमपिलिख्यते-इह शीतलजिनस्य त्र्यशीतिर्गणाःत्र्यशीतिगणधरा उक्ता आवश्यके त्वेकाशीतीरिति मतान्तरमिदमिति।
तथा स्थविरो मण्डितपुत्रो-महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं ?, त्रिपञ्चाशद्गृहस्थपर्याये चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति।
तथा 'कोसलिए'त्ति कोशलदेशेभवः कौशलिकः 'तेसीइंतिविंशति पूर्वलक्षाणि कुमारत्वे त्रिषष्टि राज्ये इत्येवं त्र्यशीति। तथा भरतश्चक्रवर्ती सप्तसप्तति पूर्वलक्षाणि कुमारत्वे षट् चक्रवर्तित्वे इत्येवं त्र्यशीति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204