Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 172
________________ समवायः- प्रकीर्णकाः १६९ यः तथाऽऽत्मप्रदेशेषुसम्बन्धनंस प्रदेशनाम जातिगत्यवगाहनाकर्मणां वायप्रदेशरूपं नामकर्म तत्पदेशनाम तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा 'अनुभागनामनिधत्ताउए'त्ति अनुभागः-आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः-परिणामोऽनुभागनाम अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनामतेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । तथा 'ओगाहणानामनिधत्ताउए'त्ति अवगाहतेजीवो यस्यां साऽवगाहनाशरीरमौदा- रिकादिपञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकविगाहनानाम तेन सहनिधत्तमायुरव- गाहनानामनिधत्तायुरिति ॥ ‘नेरइयाणमित्यादि स्पष्टं । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह-निरयगई ण'मित्यादि कण्ठयं, नवरं यद्यपि रत्नप्रभादिषु चतुर्विशतिमुहूर्तादिविरहकालो, यथोक्तं॥१॥ 'चउवीसई मुहुत्ता सत्त अहोरत्त तहय पन्नरसा। मासो य दो य चउरो छम्मासा विरहकालोत्ति ॥ · । तथापि सामान्यगत्यपेक्षया द्वादश मुहूर्ता उक्ताः, तथा एवंकरणाद्यत्तिर्यङ्मनुष्यगत्योः सामान्येन द्वादशमुहूर्ताउक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतीतुसामान्यतएव, 'सिद्धिवजा उव्वट्टणे ति नारकादिगतिषुद्वादशमुहूर्तो विरहकाल उद्वर्तनायामिति, सिद्धानांतूद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसे णं रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं पन्नत्ता?, एवं उववायदंडओ भाणियव्यो'त्ति, स चायं – “गोयमा ! जहन्नेणं एवं समयंउक्कोसेणंचउवीसंमुहुत्ताई' अनेनाभिलापेनशेषावाच्याः, तथाहि-'सक्करप्पभाए णंउक्कोसेणं सत्त राइंदियाणि वालुयप्पभाए अद्धमासंपंकप्पभाए मासंधूमप्पभाएदोमासा तमप्पभाएचउरो मासा अहेसत्तमाछमाप्त'त्तिअसुरकुमारा 'चउवीसइमुहुत्ता एवजावथणियकुमारा,पुढविकाइया अविरहिया उववाएणं एवं सेसावि, बेइंदिया अंतोमुहत्तं, एवं तेइंदियचउरिदियसंमुच्छिमपंचिंदियतिरिक्खजोणियावि गब्भवक्कंतियतिरिया मणुया य बारस मुहुत्ता संमुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई। एवं सोहम्मीसाणेवि, सणंकुमारे नव दिनाइं वीसा य मुहुत्ता, माहिंदे बारस दिवसाइं दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाइंलंतएपणयालीसंमहासुक्केअसीइंसहस्सारे दिणसयंआणएसंखेज्जामासाएवं पाणएवि आरणेसंखेज्जा वासा एवंअच्चुएविगेवेज्जपत्थडेसुतिसुकमेणसंखेज्जाइंवाससयाज्ञवाससहस्साई वाससयसहस्साईविजयाइसु असंखेजंकालं, सव्वट्ठसिद्धे पलिओवमस्सासंखेज्जइभाग'ति एवं उवट्टणादंडओवित्ति। उपपात उद्वर्तनाचायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह-'नेरइए'त्यादि कण्ठ्यं, नवरंआकर्षोनाम कर्मपुद्गलोपादानं यथा गौः पानीयंपिबन्ती भयेन पुनः पुनःआबृहति, एवंजीवोऽपि तीव्रणायुर्बन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुःप्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिमन्दतमेन चतुर्भिः पञ्चभिः षडभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि। 'आउगाणि'त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकर्षनियमो जात्यादिनामकर्मणामायुर्बन्धकाल एव वध्यमानानां शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपिबन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनांचज्ञानावरणादिप्रकृतीनांप्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204