Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 187
________________ १८४ ॥५॥ ॥६॥ ॥७॥ 112 11 ॥९॥ व्याख्यानं यद्यपीदं प्रवरकविवचः पारतंत्र्येण द्दष्टं (ब्धं) सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्प कोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ॥ निसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः ॥ श्रीमत्सूरिजिनेश्वरस्य जयिनो दर्पीयसां वाग्मिनां, तब्दन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि ॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता ॥ श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसामानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥ प्रत्यक्षरं निरूपयास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥ ४ चतुर्थ अङ्गसूत्र - समवायं सटीकं समाप्तः समवायाङ्गसूत्रम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता चतुर्थ अङ्गसूत्र समवायस्य टीका परिसमाप्ता । *** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204