________________
१८४
॥५॥
॥६॥
॥७॥
112 11
॥९॥
व्याख्यानं यद्यपीदं प्रवरकविवचः पारतंत्र्येण द्दष्टं (ब्धं) सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्प कोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ॥ निसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः ॥ श्रीमत्सूरिजिनेश्वरस्य जयिनो दर्पीयसां वाग्मिनां, तब्दन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि ॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता ॥ श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसामानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥ प्रत्यक्षरं निरूपयास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥
४ चतुर्थ अङ्गसूत्र - समवायं सटीकं समाप्तः
समवायाङ्गसूत्रम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता चतुर्थ अङ्गसूत्र समवायस्य टीका परिसमाप्ता ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org