________________
समवायः प्रकीर्णकाः
१८३
चशब्दः समुच्चये, एवं तित्थगरसंवेइ यत्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायते एतदिति, एवं चक्रवर्त्तिवंश इति च तत्प्रतिपादकत्वात् दशारवंश इति च गणधरवंश इति च गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मनुवंशश्चैतदुच्यते ।
यतिमुनिशब्दयोः ऋषिपर्यायत्वात्, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया त्रैकालिक र्थवबोधनसहत्वादस्य, तथा 'श्रुताङ्गमिति वा' श्रुतस्य प्रवचनस्य पुरुषरूपस्याङ्गं-अवयव इतिकृत्वा, तथा 'श्रुतसमास इति वा' समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् 'श्रुतस्कन्ध इति वा' श्रुतसमुदायरूपत्वादस्य 'समाए व 'त्ति समवाय इति वा, समस्तानां जीवानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः ।
तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति व्याख्यायते, तथा समस्तं परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादिवदङ्गतेति भावः, तथा 'अज्झयणंति'त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञा-दिष्विवेति भावः । इतिशब्दः समाप्तौ 'ब्रवीमी'ति किल सुधर्म्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि-प्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्प- र्यमर्थस्य प्रतिपादितं भवति । एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतं । अयमेवार्थ शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् । प्रकिर्णकः समवायः समाप्तः
नमः श्रीवीराय प्रवरवरपार्थ्याय च नमो नमः श्री वाग्देव्यै वरकविसभाया अपि नमः ॥ 119 11 नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो, नमः सर्वस्मै च प्रकृतविधिसाहाय्यककृते यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् ॥ तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखात खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् ॥ इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुव्याखयानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात, क्वचन तदवभासो यः स मान्द्यान्न बुद्धेः वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ।।
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
॥३॥
॥ ४ ॥
Jain Education International