Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः-८८
११३
(समवायः-८८) मू. (१६७) एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइ अट्ठासीइ महग्गहा परिवारो प०।
दिट्ठिवायस्सणंअट्ठासीइसुत्ताइंप०,२०-उज्जुसुयं परिणयापरिणयंएवं अट्ठासिइ सुत्ताणि भाणियव्वाणि जहा नंदीए।
मंदरस्सणं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एसणं अट्ठासीइं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउसुवि दिसासु नेयव्वं ।
बाहिराओ उत्तराओ णं कठ्ठाओ सूरिए पढमं छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति इगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता सूरिए चारं चरइ, दक्खिणकट्ठाओणंसुरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्ठिभागे मुहुत्तस्स रयणिखेत्तस्स निवुवेत्ता दिवसखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चारंचरइ
वृ. अष्टाशीतिस्थानके किञ्चिद्विवियते, एकैकस्यासंख्यातानामपिप्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमःसूर्यंतस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपिचन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति।
दिट्ठिवाए'त्यादि, दृष्टिवादस्य-द्वादशाङ्गस्य परिकर्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्चप्रकारस्य 'सुत्ताइंति द्वितीयप्रकारभूतानि अष्टाशीर्तिभवन्ति 'जहा नंदीए'त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः। .
‘मंदरस्से'त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहनमानात्जम्बूद्वीपान्ताच्च द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्यव्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद्यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंख- दकसीमाख्यान् वेलन्धरनागराजनिवा सपर्वतानाश्रित्य वाच्यमत एवाह-‘एवं चउसुवि दिसासु नेयव्व'मिति।
__'बाहिराओण'मित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित् 'बाहिराओ'त्ति न दृश्यते सूर्य प्रथमं षण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे'त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान, 'दिवसखेत्तस्स'त्ति दिवसस्यैव 'निवुड्ढेत्त'त्ति निवर्थ्य हापयित्वा ‘रयणिखेत्तस्स'त्ति रजन्यास्तु अभिवर्ध्य ‘सूरिए चारं चरइत्ति भ्राम्यतीति, इह च भावनैवं-प्रतिमण्डलं दिनस्य मुहूर्तेकषटिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तुत एववर्द्धन्त्र इति, द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्याद्वयभेदकल्पनया ततो न पुनरुक्तमवसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्खिणकट्ठाओ' इतिआदिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धि रात्रिहानिश्च भावनीयेति ।
समवायः-८८ समाप्तः
(समवायः-८९) मू. (१६८) उसमेणंअरहाकोसलिएइमीसे ओसप्पिणीएततियाए सुसमदूसमाएपच्छिमे भागे एगूणउए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204