Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 167
________________ १६४ समवायाङ्गसूत्रम्-२४६ तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव, तथा देवस्य भवनावास्यादेः, तत्रासुरादेर्दशविधस्यपर्याप्तकस्येतरस्यच, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्यपञ्चविधस्य, तथा यदि वैमानिकस्य किंकल्पोपपन्नस्य कल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त ! किंसंस्थितं?, उच्यते, नानासंस्थितं, तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितं, देवानां भवधारणीयसमचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पातीतानां भवधारणीयमेव। तथा वैक्रियशरीरावगाहना भदन्त ! किंमहती ?, गौतम ! जधन्यतोऽङ्गुलासंख्येयभागमुतकर्षतः सातिरेकं योजनलक्षं, वायोरुभयथा अङ्गुलासंख्येयभागं, एवं नारकस्यजधन्येन भवधारणीयं, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तम्यां, षष्ट्यादिषुत्वियमेव अर्धार्द्धहीनेति, उत्तरवैक्रिय तुजघन्यतः सर्वेषामप्यङ्गुलसंख्येयभागमुत्कर्षतश्च नारकस्य भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरश्चा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योजनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहनारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति । अनन्तरोक्तं सूत्र एवाह-एवं जाव सणंकुमारे'त्यादि, एवमिति-दुविहे पन्नत्ते एगिन्दिय इत्यादिनापूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियङ्करमित्याह-यावत्सन-कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति । 'आहारये'त्यादिसुगम, नवरं एव'मिति यथापूर्वं आलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुरसाहारगसरीरे किं गब्भवक्रतियमणुस्साहारगसरीरे किं संमुच्छिममणुस्साहारगसरीरे?, गोयमा ! गब्भवक्कंतियमणुस्साहारगसरीरे नो समुच्छिममणुस्साहारगसरीरे, जइगब्भवक्कंतिय०,' इत्यादि सर्वमूह्यं जावजइ पमत्तसंजयसम्मद्दिपिजत्तयसंखेज्जवासाउयकम्मभूमिगब्भवक्कंतियमणुस्साहारसरीरे' किं इड्डिपत्तमपत्तसंजयसम्मदिट्ठिपज्जत्तसंखेज्जवासाउयकम्मभूमिगगब्मवक्त्रंतियमणुस्साहारगसरीरे अणिडिपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेज्जावासाउयकम्मभूमिगगब्भवतियमणुस्साहारगसरीरे ?, गोयमा !' द्वितीयस्य निषेधः प्रथमस्य जानुज्ञा वाच्या। एतदेवाह-'वयणा विभाणियव्व'त्ति सूचितवचनान्ययुक्तन्यायेन सर्वाणिभणनीयानि, विभागेनपूर्णान्युच्चारणीयानीत्यर्थः, ‘आहारयत्ति आहारगसरीरस्स केमहालिया सरीरोगाहणा प०?, गोयमा !' इत्येतत् सूचितं, 'जहन्नणेणं देसूणा रयणी तिकथम्?, उच्यते, तथाविधप्रय-लविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात्, न हीहौदारिकादे-रिवाङ्गुलासंख्येयभागमात्रता प्रारम्भकाले इतिभावः। _ 'तेयासरीरे णं भंते'इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यताइह वाच्या, सा चेयमर्थतः-एगिंदियतेयगसरीरेणंभंते! कितिविहे प०?, गोयमा! पंचविहे पण्णत्ते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवंजीवराशि प्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् ‘सव्वट्ठसिद्धगनुत्तरोववाइयकप्पातीतवे-माणियदेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204