Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः- प्रकीर्णकाः
१६३ तेआसरीरे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, एगिदियतेयसरीरे बितिचउपंच० एवंजाव गेवेजस्सणंभंते! देवस्सणंमारणंतियसमुग्धाएणंसमोहयस्ससमाणस्स केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ उक्कोसेणंजाव अहोलोइयग्गामाओ, उटुंजावसयाईविमाणाई, तिरियं जाव मणुस्सखेत्तं, एवंजाव अनुत्तरोववाइया॥ एवं कम्मयसरीरंभाणियव्वं ।
वृ. 'कइ णं भंते' इत्यादि कण्ठ्यं, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणिपृथिव्याघेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि, कियह्रमित्याह-'गब्भवकंतिये'त्यादि ।
'ओरालियसरीरस्से' तत्रोदारं-प्रधानं तीर्थकरादिशरीराणिप्रतीत्यअथवोरालं-विस्तरालं विशालं समधिकयोजनसहप्रमाणत्वात्वनस्पत्यादि प्रतीत्य अथवा उरालं-स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिपूयबद्धंयच्छरीरं तत्समयपरिभाषया उरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादोरालियं शरीरं, तस्यावगाहन्ते यस्यां साऽवगाहना-आधारभूतं क्षेत्रं शरीराणामवगाहना शरीरावगाहनाअथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना साभदन्त! केमहालिया-किम्महतीप्रज्ञप्ता?,तत्रजघन्येनाकुलासंख्येयभागंयावत्पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेकं योजनसहमिति बादरवनस्पत्यपेक्षयेति ‘एवं जाव माणुस्से'त्ति इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः। .
तथाहि-एकेन्द्रियौदारिकस्य पृच्छा निर्वचनंचतदेव, तथापृथिव्यादीनांचतुर्णा बादरसूक्ष्मपर्याप्तापर्याप्तानाजघन्यत इत्कृष्टश्चाङ्गुलासंख्येयभागो, वनस्पतीनांबादरपर्याप्तानामुत्कर्षतःसाधिकं योजनसहलं, शेषाणांत्वकुलासंख्येयभाग एव, द्वित्रिचतुरिन्द्रियाणांपर्याप्तानामुत्कर्षतोऽ-नुक्रमेण द्वादशयोजनानि त्रीणिगव्युतानिचत्वारिचेति, पञ्चेन्द्रियतिरश्चां जलचरामांपर्याप्तानांगर्भजानां संमूर्छनजानां चोत्कर्षतो योजनसहलं, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि उरःपरिसाणां गर्भव्युत्क्रान्तिकानां योजनसहनं एषामेव सम्मूर्छनजानां योजनपृथक्त्वं भुजपरिसर्पाणां गर्भजानां गव्यूतपृथक्त्वं सम्मूर्च्छनजानां च धनुः-पृथक्त्वं खचराणां गर्भजानां सम्मूर्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भवयुक्रान्तिकानां गव्यतत्रयं सम्मूर्छनजानामङ्गुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदेचेति।।
तथा 'कइविहे ण'मित्यादि स्पष्टं, नवरं विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं विविधं विशिष्टंवा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरंवायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनां एवं जावे'त्यादेरतिदेशादिदंद्रष्टव्यं, यदुत 'जइएगिदियवेउब्वियसरीरए किं वाउकाइयएगिदियवेउब्वियसरीरए अवाउकाइयएगिदियवेउब्वियसरीरए? , गोयमा! वाउकाइयएगिदियसरीरएनोअवाउकाइय' इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः कि सूक्ष्मस्य बादरस्य वा?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्यापर्याप्तकस्यवा?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा ?, गौतम् ! सर्वेषां, तब नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूछिमस्यइतरस्यवा?
इतरस्य,तस्यापिसंख्यातवर्षायुषएवपर्याप्तस्य, तस्यापिचजलचरादिभेन त्रिविधस्यापि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204