Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 144
________________ समवायः - प्रकीर्णकाः १४१ स्थितिविशेषाश्च-उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः-प्रभूतभेदाः सम्यगदर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेवच पालनानि उपसर्गाधिसहनानिनिरुपसर्गश्चउपसर्गाभावश्चेत्यर्थः। तपांसि च विचित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाःपश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च संलेखनाः तपसारागादिजयेनचकशीकरणानि आत्मसंलेखनाः ततःपदत्रयस्यकर्मधारयस्तासां, 'झोसणं ति जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वाव्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु? कल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणियानि तेषु कानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोदिं लब्धा इति शेषः लब्ध्वा च संयमोत्तमंप्रधानं संयमं तमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयंअपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशास्वाख्यायन्त इति प्रक्रमः, एते चान्येचेत्यादि प्राग्वन्नवरं। 'संखेज्जाइंपयसयसहस्साइंपयग्गेणं ति किलेकादशलक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति। मू. (२२४) से किंतं अंतगडदसाओ?, अंतगडदसासुणं अंतगडाणं नगराई उजाणाई चेइयाइंवनाइंराया अम्मापियरोसमोरसरणा धम्मायरिया धम्मकहाइहलोइयपरलोइअइटिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओ खमा अज्जवं मद्दवं चसोअंचसच्चसहियंसत्तरसविहोय संजमोउत्तमंच बंभं आकिंचणयातवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ जत्तिओ यजह पालिओ मुणिहिं पायोवगओयजोजहिं जत्तियाणि भत्ताणि छेअइत्ताअंतगडो मुनिवरोतमरयोघविप्पुक्को मोक्खसुहमनंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई। . अंतगडदसासुणं परित्ता वायणा संखेज्जा अनणुओगदारा जावसंखेजाओ संगहणीओ, जाव से णं अंगट्ठायाए अट्ठमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं पन्नत्ता संखेज्जा अक्खरा जाव एवं चरणकरणपरूवणया आघविजंति ।। सेत्तं अंतगडदसाओ। वृ-‘से किं त'मित्यादि, अथ कास्ता अन्तकृद्दशाः?, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्तेअन्तकृतास्ते चतीर्थकरादयस्तेषादशाः-प्रथमवर्गेदशाध्ययनानीतितत्संख्ययाअन्तकृत्दशाः, तथा चाह 'अंतगडदसासुण'मित्यादि कण्ठ्यं, वरं नगरादीनि चतुर्दशपदानिषष्ठाङ्गवर्णकाभिहितान्येव, तथा 'पडिमाओ'त्ति द्वादश भिक्षुप्रतिमामासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचंच सत्यसहितं, तत्र शौचंपरद्रव्या- पहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमंच ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204