Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - प्रकीर्णकाः
१५५
राशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धमस्तिकायस्तद्देशास्तत्पर्देशश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवंनव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्द्धस्कन्धा देशाःप्रदेशाः परमाणवश्चेति, तेचवर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाःसंयोगतोऽनेकविधा इति।
जीवराशिर्द्विविधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्नाजीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकाराइति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येक द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धनारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात्, पञ्चेन्द्रियति-स्त्रिधाजलस्थलखचरभेदा, तत्र जलचराः पञ्चविधा मत्स्यकच्छग्राहमकरसुंसुमारभेदात् ।
पुनर्मत्स्याअनेकधा-श्लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधाअस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्गुपुलकसीमाकारभेदात्मकरा-मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचराद्विधा-चतुष्पदपरिसर्पभेदात्, तत्रचतुष्पदाश्चतुर्द्धाएकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसर्पा द्विधाउरःपरिसर्पभुजपरिसर्पभेदात्, उरःपरिसश्चितुर्द्धा-अहिअजगराशालिकमहोरगभेदात्, तत्राहयो द्विधा-दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा-चर्मपक्षिणो लोभपक्षिणः समुद्रपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्छिमाः नपुंसकाएव, इतरेतु त्रिलिङ्ग इति गर्भव्युत्क्रान्तिकमनुष्याधिा-कर्मभूमिजा अकर्मभूमिजाअन्तरद्वीपजाश्चेति ।
कर्मभूमिजा द्विविधाः-आर्या म्लेच्छाश्च, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः-क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, ।
देवाश्चतुर्विधाः भवनवास्यादिभेदाभवपतयो दशधाअसुरनागादयः व्यन्तराअष्टविधा पिशाचादयःज्योतिष्काः पञ्चधा चन्द्रादयःवैमानिका द्विधाकल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा-प्रैवेयका अनुत्तरोपपातिकाश्चग्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अनुत्तरे' त्यादि।
पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह-'दुविहे'त्यादि, सुगमं नवरं 'दण्डओ'त्ति ॥१॥ 'नेरइया १ असुराईं १० पुढवाइ ५ बेइंदियादओ ४ मणुया १।
वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं ॥ अथानन्तरं प्रज्ञप्तानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह-'इमीसे ण' मित्यादि, अवगाहनासूत्रादर्वाक् सर्वंकण्ठ्यं, नवरं 'तेणं निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, तेच वृत्तत्र्यम्नचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तुपुष्पावकीर्णा दिग्विदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्रच वाहुल्यमङ्गीकृत्येदमभिधीयते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204