Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 161
________________ १५८ समवायाङ्गसूत्रम्-२३८ अविद्यमाना वा योधाः-परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय शब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल'त्तिअष्टचत्वारिंशद्भेदभिन्नाःप्रशंसा कृतावनमालावनस्पतिपल्लवनजोयेषुतानितथा, 'लाइयंतियद्भूमेश्छगणादिनोपलेपनं उल्लोइय'ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्ष-चन्दनविशेषः सरसंच-रसोपेतंयद्रक्तचन्दनं-चन्दनविशेषः ताभ्यांदर्दराभ्यांधनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण-चपेटाभिधाने दर्दरेषु वा-सोपानवीथीषुदत्ताः पञ्चाङ्गुलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरःप्रधानः कुन्दुरुक्कः-चीडातुरुष्कः-सिल्हकंगन्धद्रव्यमेवएतानिचतानि ‘डझंति'त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो ‘मघ-मघेत'त्ति अनुकरणशब्दोऽयं मधमधायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि-उत्कटानि यानि तानि तथा तानिच तान्यभिरामाणि-रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषां गन्थः-आमोदो येष्वस्ति तानि सुगन्धिवरगन्धि-कानि, तथा गन्धवर्ति-गन्धद्रव्याणां गन्धयुक्तिशोपदेशेन निर्वार्तितगुटिका तद्भूतानि-तत्कल्पानीतिगन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथाअच्छानिआकाशस्फटिकवत् ‘सण्ह'त्तिश्लक्ष्णानिसूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पनपटवत् ‘लण्ह'त्तिश्लक्ष्णानि मसृणानीत्यर्थ, घुटितपटवत्, ‘घट्टत्ति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् ‘मट्ठ'त्ति मृष्टानीव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव । अतएव 'नीरय'त्तिनीरजांसि रजोरहितत्वात् 'निम्मल'त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा सप्पह'त्तिसप्रभाणि सप्रभावाणिअथवा स्वेन-आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रमाणि यतः “समिरीय'त्ति समरीचीनि-सकिरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन-वस्त्वन्तरप्रकाशनेनवर्तन्ते इति सोद्योतानि वस्त्वन्तरप्रकाशनेन वर्तन्तेइति सोद्योतानि 'पासाईय'त्ति प्रासादीयानिमनःप्रसत्तिकराणि 'दरिसणिज्जत्तिदर्शनीयानि, तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरूव'त्ति अभिरूपाण कमनीयानि 'पडिरूव'त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः । ___एव'मित्यादि, तथाऽसुरकुमारावाससूत्रेतत्परिमाणमभिहितमेवमिति-तथा यद्भवनादिपरिमाणंयस्य नागकुमारादिनिकायस्यक्रमते-घटतेतत्तस्यवाच्यमिति, किंविधंतस्य परिमाणमत आह-'जंजंगाहाहिं भणियं' यद्यद् गाथाभिः। मू. (२३९) चउसठ्ठी असुराणं चउरासीइंच होइ नागाणं। बावत्तरि सुवन्त्राण वाउकुमाराण छन्नउइ॥ मू. (२४०) दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं। छहंपि जुवलयाणं बावत्तरिमो य सयसहसा। वृ. 'चउसहि असुराण'मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्यह-'इह चेव वण्णओ'त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि For Private & Personal Use Only Jain Education International For www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204