Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५८
अनुयोगद्वार-चूलिकासूत्रं स्थाप्यमानाः स्थापनाऽऽवश्कं, तत्र काष्ठकर्मादिष्वाकारवति सद्भावस्थापनया, साध्वाधाकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असदभावस्थापनया, साध्वाधाकारस्य तत्रासद्भावादिति,नगमयन्नाह'सेत'मित्यादि तदेतत् स्थापनाऽऽवश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यनिदमाह
मू.(१२) नामढवणाणं को पइविसेसो?, नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा।
वृ. नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्कयादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं आवकहिय'मित्यादि, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्तते काचित्तु तत्सत्तां यावदतिष्ठति इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावतए स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यकल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्तते, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयो: कालकृतो विशेषः । ___ अत्राह-ननु यथा स्थापना काचिदकल्पकालीना तथा नामापि किञ्चिदल्पकालीमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनाद, सत्यं, किन्तु प्रायो नाम यावकथितमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः।
उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषतिः सन्निहितशचीवनादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्राद्, यथा च तत्स्थापनाायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति।। उक्त स्थापनाऽऽवश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्न कारयतिमू.(१३)से किं तंदव्वावस्सयं?, २ दुविहु पन्नतं तंजहा-आगमओ अनोआगमओ ।
वृ.अथ किं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-'दव्वावस्सयं दुविह'मित्यादि तत्र द्रवतिगच्छति ताँस्तान् पर्यायानिति द्रव्यविवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं चद्रव्यावश्यकम्, अनुभातावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्यर्थः। द्रव्यलक्षणं च सामान्य इदम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 257