Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 20
________________ मावश्यक-हारिभद्रीयवृत्तिः देशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तुनवभ्यो योजनेभ्य इति। आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुलक्षय कस्माच्चक्षुरादीनि रूपादिकमर्थ न गृहन्तीति, उच्यते, सामर्थ्याभावात् , द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाञ्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभायात्, इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिर्बन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः ।। साम्प्रतं यदुक्तमासीत् यथा “नयनमनसोरप्राप्तकारित्वं 'पुहं सुणेइ सई' इत्यत्र वश्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदक, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात् , मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भरन्ति-"अमेत्र में गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः। किं च-यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्यातां, एवं तर्हि अग्निशूल'जलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति । किं च-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृहीयात् । आह-नायना मरीचयो निर्गत्य तमर्थ गृहन्ति, ततश्च तेषां तैजसत्वात सर्वेन्द्रियापेक्षया. २ प्राप्यकारीन्द्रियचतुष्कापेक्षया. ३ क्षेत्रेति. विषयेति. ५ विप्रकृष्ट कमिश्चिनिर्दिश्यमाने स्थले इति. ६ नयनमरीचीनामेव निर्गमात् चक्षुषश्चानिर्गमात्. * निबन्धन. १-३-३-४ + निबन्धन. १-२-३-४ जलझूला. क्लेदभेदा.. सूक्ष्मत्वाचानलादिसंपर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुंक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाचे।व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादी दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोक्त-साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं, ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाच्चोपहन्येत, न चानुगृह्यते उपहन्यते 'वेति । आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तिविषयतेति । किं च-द्रव्यमनो वा बहिः निस्सिरेत्, मनःपरिणामपरिणतं जीवाख्यं भावमनो वा?, न तावद्भावमनः, तस्य शरीरमत्रित्वात् , सर्वगतत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसः। अथ द्रव्यमनः, तदप्ययुक्तं, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत् , अज्ञत्वात्, उपलवत् । आह-करणत्वाद्रव्यमनसस्तेनं प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तःकरणत्वात् , गइह यदात्म सुवर्णादीनां भेदादिभावात् तैजसत्वेऽपि आह-सूक्ष्मत्वाचेति. २ शुरुजलादिः । प्राप्तिनिबन्धनेत्यादिहेतोरसिद्धतोद्धावने. . नायनमरीचीनां. ५ अयुक्तमेतदिति संटङ्कः । शरीरममाणत्वात् विहाय तम तदवस्थानमित्यर्थः. . भाकाशादिवत्. ८ यमनियनोच्छेदप्रसङ्गः. ९ द्रव्यमनसा. * अमेतत् ४. + वेति. 1 अति० १-२-३. अति० ४.१ प्राप्ति ५-६. विरेत् ५-६. मास्तीदम् ५-६. नोऽन्तःकरणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तःकरणमात्मनः, तस्माद् दृष्टान्तदान्तिकयोवैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः॥५॥ किं च प्रकृतं ?, स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि ? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह भासासमसेढीओ, सदं जं सुणइ मीसयं सुणई । वीसेढी पुण सई, सुणेइ नियमा पराघाए ॥६॥ व्याख्या-भाष्यत इति भाषा, वा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेणयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्युदासार्थ, इह श्रेणयः क्षेत्रप्रदेशपतयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽधसमय एव लोकान्तमनुधावतीति, ताइतो भाषासमश्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनान्तरम् , एतदुक्तं भवति-भाषासमश्रेणिव्यवस्थित इति । शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्द 'य' पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवति-व्युत्सृष्टद्रव्यभावितापान्तरालस्थ शब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्तते, ततश्चायमर्थो भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम . भाषावर्गणाध्येति. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 340